Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 633
________________ ६०० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १११-११२.] आपोऽस्मिन्ननूपो देशः । देश इति किम् ? अन्वीपं वनम् । कथं कूपः सूपः । यूपः ? पृषोदरादित्वात् ।। ११० ।। रिखत्यनव्ययारुषो मोऽस्तो ह्रस्वश्च ॥ ३. २. १११॥ अनव्ययस्य अर्थात्स्वरान्तस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो भवति, यथासंभवं ह्रस्वश्चान्तादेशो भवति । ज्ञमात्मानं मन्यते शंमन्यः, 5 पण्डितंमन्यः, ममन्यः, खट्वंमन्या, महंमन्यः, रात्रिमन्यमहः, द्र रिणमन्यः, ग्रामरिंगमन्यः, वधुंमन्यः, खलपुंमन्यः, क्षेमंकरः, मेघंकरः, पाढय भविष्ण :, आढय भावुकः, सुभगंकरणम् । आशितंभवो वर्तते, मितंगमः विहंगमः, पतङ्गः। परत्वात्पुंवद्भावो ह्रस्वत्वेन बाध्यते:-कालिंमन्या, हरिणिमन्याः अरुस्-अरुंतुदः, खितीति किम् ? पण्डितमानी, सुभगमानी अनव्ययेति10 किम् ? दोषामन्यमहः, दिवामन्या रात्रिः । अव्ययप्रतिषेधात् खिति तदन्तग्रहणम्, न ह्यव्ययात्परः खित्संभवति । अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न भवति, गीर्मन्यः । 'स्वरस्य ह्रस्वदीर्घप्लुताः' इति ह्रस्वः स्वरस्यैव । कृद्ग्रहणे सति गतिकारकस्यापि ग्रहणात्-कूलमद्र जः कूलमुद्वह इत्यत्रापि भवति ।। १११ ।। न्या० स०--खित्यनव्यया। ग्रामण्यं खलप्वमात्मानं मन्यते। अर्थादिति अरुर्ग्रहणादनव्ययानां स्वरान्तत्वं लभ्यते इति । अरुंतुद इति 'बहुविध्वरुर्' [५. १. १२४.] इति खश् । अत्र मोऽन्ते सति 'संयोगस्यादौ' [ २. १.८८. ] इति 'स' लोपः। न ह्यव्ययादिति ननु यथाऽव्ययात् खिन्न संभवत्येवमऽनव्ययादपि न संभवति? न, धातोरनव्ययात् स्यात् । तथा च शंमन्य इत्यादौ ज्ञमन्य इति स्यादित्यव्ययप्रतिषेधः समाश्रीयते 120 गीर्मन्य इति नन्वत्र मोऽन्तेऽपि 'पदस्य' [२. १. ८६. ] इति लोपे गीर्मन्य इति भविष्यति किं मोन्तप्रतिषेधेन ? उच्यते, 'रात् सः' [२. १. ६० ] इति नियमाल्लोपो न स्यादिति प्रतिषेधः ॥ ३. २. १११ ।। सत्यागदास्तोः कारे ॥ ३. २. ११२ ॥ सत्यादिभ्यः कारशब्दे उत्तरपदे परे मोऽन्तो भवति । सत्यं करोति25 सत्यस्य कार इति वा सत्यंकारः, एवमगदंकारः, अस्तुंकारः, अस्त्विति निपातः क्रियाप्रतिरूपकोऽभ्युपगमे वर्तते ॥ ११२ ।। 15

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650