Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू० १०८ - ११०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६६
मादेशो भवति । उदमेघो नाम यस्यौदमेघिः पुत्रः, उदवाहो नाम यस्यौदवाहिः पुत्रः, उदपानम् निपानम् । उदधिः समुद्रः, उत्तरपदस्य, लवणोदः, कालोदः, क्षीरोदः, एवंनामानः समुद्राः, लोहितोदा, क्षीरोदा नाम नदी, अच्छोदम्, सितोदम्, अरुणोदम्, लोहितोदम्, एवंनामानि सरांसि ।। १०७ ।।
न्या० स० -- नाम्न्युत्तर० । उत्तरपदाधिकारात् पूर्वपदस्यैव स्यादित्युत्तरपदस्ये- 5 त्युच्यते । चकाराभावे च पूर्वपदस्य न स्यादिति चकारः ।। ३. २. १०७ ।।
ते लुग्वा ॥ ३.२.१०८ ॥
नामविषये ये पूर्वोत्तरपदे ते लुग्वा भवतः । देवदत्तः, देवः, दत्तः, सत्यभामा, सत्या, भामा - शब्द साम्येऽपि प्रकरणादेरर्थविशेषनिश्चयः ।। १०८ ।।
न्या० स० -- ते लुग्वा । ननु पूर्वपदस्योत्तरपदस्य वा लोपे यः समुदायमनु- 10 वर्त्तते देवादिशब्दः स देवदत्ताद्यर्थेन च त्रिदशार्थेन च समान इति कथं निश्चयो भवति अयं देवदत्तार्थ एव न तु त्रिदशाद्यर्थ इत्याह- शब्देत्यादि । शब्दानां भिन्नार्थानां साम्येऽपि तुल्यरूपत्वेऽपि ।। ३. २. १०८ ।।
द्वयन्तरनवर्णोपसर्गादप ईप् ॥ ३. २. १०६ ॥
द्वि अन्तर् इत्येताभ्यामनवरर्णान्तेभ्यश्चोपसर्गेभ्यः ः परस्याप् इत्येतस्यो - 15 त्तरपदस्य ईप् इत्ययमादेशो भवति । द्विधा गता आपोऽस्मिन्निति द्वीपम्, एवमन्तरीपम्, नीपम्, प्रतीपम्, समीपम्, अन्वीपम्, वीपम् । उपसर्गादिति किम् ? शोभना प्रापः स्वापः पूजिता प्रापः प्रत्यापः, स्वती पूजायां नोपसगौं, अत एव समासान्तो न भवति । अनवर्णेति किम् ? प्रापम्, परापम्, संश्लिष्टा आगता आपोऽस्मिन् समापो देवयजनम् ।। १०६ ।।
20
न्या० स०-- द्वयन्तर० । द्वीपमिति यथा द्वीपमित्यत्राऽस्वपदविग्रहः एवमन्तर्गताः निवृत्ताः प्रत्यावृत्ता: संगता: अनुगता: प्रापोऽस्मिन्निति प्रस्वपदो बहुव्रीहिः 'एकार्थं चानेकं च' [ ३. १. २२. ] इति । सर्वेषु 'ऋक् पूः पथ्यपोऽत्' [ ७. ३. ७६. ]
समासान्तः ।। ३. २. १०६ ।।
अनोर्देश उप् ॥ ३. २. ११० ॥
अनोः परस्यापो देशेऽभिधेये उप् इत्ययमादेशो भवति । अनुगता
25
Loading... Page Navigation 1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650