Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू. ११३-११५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०१
न्या. स०--सत्यागदा०। अस्त्वितीति यदीदं तुवन्तं तदा 'नाम नाम्ना' [ ३. १. १८.] इति समासो न प्राप्नोति तदभावे कथमुत्तरपदमित्याशङ्का । ॥ ३. २. ११२ ।।
लोकंपृणमध्यंदिनानभ्याशमित्यम् ॥ ३. २. ११३ ॥
एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा 5 पृणः लोकंपृणः, मध्यं दिनस्य मध्यं च तत् दिनं चेति वा मध्यंदिनम्, प्रश्नोतेर्घञ्यभ्याश इति रूपम्, अनभ्याशं दूरमित्यं गन्तव्यमस्यानभ्याशमित्यः, दूरतः परिहर्तव्यः, अनभ्याशेनेत्योऽनभ्याश मित्य इति वा दूरेण प्राप्यो न त्वन्तिकेनेत्यर्थः । अन्ये तु प्रोणातेरिणगन्तस्याचि ह्रस्वत्वं निपात्य लोकप्रिणः लोकप्रीणक इत्यर्थ इत्युदाहरन्ति । कश्चित्त्वकृतह्रस्वत्वमेव मन्यते10 लोकंप्रीण ॥ ११३ ॥
न्या० स०-लोकंपृण । लोकं पृणतीति वाक्ये 'मूलविभुजादयः' [५. १. १४४.] इति कः, यदा लोकस्य पृणः तदा 'नाम्युपान्त्य' [ ५. १. ५४. ] इति कः ।। ३. २. ११३ ।।
भ्राष्ट्राग्नेरिन्धे ॥ ३. २. ११४ ॥
भ्राष्ट्राग्निभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तो भवति । भ्राष्ट्रस्येन्धः15 भ्राष्ट्रमिन्धः, एवमग्निमिन्धः ॥ ११४ ।।
न्या० स०--भ्राष्ट्राग्ने । भ्राष्ट्रमिन्ध इति इन्धानं प्रयुक्त णिग् भावे अल्, इन्ध्यतेऽनेनेति वा 'पुन्नाम्नि' [ ५. ३. १३०. ] इति घः । इन्धयतीत्यचि वा, घत्रि तु 'दशनावोद' [ ४. २. ५४. ] इति 'न' लोपः स्यात् ।। ३. २. ११४ ।।
अगिलाद्गिलगिलगिलयोः ॥ ३. २. ११५॥ 20
गिलान्तशब्दजितात् पूर्वपदात्परे गिले गिलगिले चोत्तरपदे परे मोऽन्तो भवति । तिमि गिलतीति तिमिङ्गिलः, एवं मत्स्यंगिलः, बालंगिलो राक्षसः, अपत्यंगिला शिशुमारी। तिमीनां गिलगिलः तिमिगिलगिलः, गिलगिलशब्द गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् । गिलशब्दस्य स्वरान्तस्य पर्युदासेन स्वरान्ताद्विधिस्तेन व्यञ्जनान्तान्न भवति, धूगिलः 125 अगिलादिति किम् ? तिमिगिलं गिलति तिमि गिलगिलः । गिलं गिलति
Loading... Page Navigation 1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650