Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 637
________________ ६०४ ] .... बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १२१-१२३.] 5 ईयकारके ॥३. २. १२१ ॥ पृथग्योगादषष्ठीतृतीयादिति निवृत्तम्, अन्यशब्दादीये प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः, गहादित्वादीयः, अन्यस्मै हितमन्यदीयम्, अन्यस्यान्येन वा कारक: अन्यत्कारकः, अन्यः कारकः अन्यत्कारकः, अन्यत्कारिका ।। १२१ ।। न्या० स०--ईयकारके । अन्यस्य अन्येन वा कारकेति 'याजकादिभिः' [ ३. १. ७८. ] 'कारकं कृता' [ ३. १. ६८ ] च समासः ।। ३. २. १२१ ।। सर्वा दिविष्वग्देवाद्रि क्व्यञ्चौ ॥ ३. २. १२२ ॥ सर्वादेविष्वग्देवशब्दाभ्यां च परः क्विबन्तेऽञ्चतावुत्तरपदे परे डद्रिरन्तो भवति । सर्वमञ्चति सर्वद्यङ्, सर्वद्यञ्चौ, सर्वद्यञ्चः, सर्वद्रीचः, सर्व-10 द्रीचा, सर्वद्रीची, एवं तघङ्, तञ्चौ , तद्यञ्चः, तद्रीचः, तद्रीचा, तद्रीची, अदाङ्, अदञ्चौ , अदद्यञ्चः, अदद्रीचः, अदद्रीचा, अदद्रीची, काङ्, कञ्चौ , कद्यञ्चः, कद्रीचः, कद्रीचा, द्वयद्यङ्, द्वयद्यञ्चौ, द्वयद्यञ्चः, विषू अवतीति विषः,-विष्वमञ्चति विष्वङ्, विष्वगित्यव्ययं वा, विष्वगञ्चति विष्वद्यङ्, विष्वाञ्चौ, विष्वद्यञ्चः, विष्वद्रीचः, विष्वद्रीचा, विष्वद्रीची,15 देवानञ्चतीति-देवघङ, देवद्यञ्चौ, देवद्यञ्चः, देवद्रीचः, देवद्रीचा, देवद्रीची, सर्वादिविष्वग्देवादिति किम् ? अश्वमञ्चति अश्वाची, विष्वमञ्चति विषूची । अञ्चाविति किम् ? विश्वयुक्, विष्वग्युक, देवयुक् । क्वीति-किम् ? विष्वगञ्चनम् । 'धातुग्रहणे तदादेः समुदायस्य ग्रहणं प्राप्नोति' इति क्वीत्युक्तम् । डकारोऽन्त्यस्वरादिलोपार्थः ।। १२२ ।। न्या० स०--सर्वादिविष्वग्। सर्वेषु 'डस्युक्तम्' [ ३. १. ४६. ] इत्युपपदसमासस्य नित्यत्वेन नित्यमेकपदत्वे "ह्रस्वोऽपदे वा' [ १. २. २२. ] इति न ह्रस्वो डनेरिकारस्येति । नामग्रहणे* इति न्यायस्यानित्यत्वाद् विषूचीशब्दान्न डद्रिः । तस्मिन् सति हि विषू चद्रयङिति अनिष्टं रूपं स्यात्, यदा सर्वाऽमञ्चतीति देवीमञ्चतीति क्रियते तदा डद्रिर्भवत्येव, यतोऽत्रामु न्यायं मन्यन्ते ।। ३. २. १२२ ।।.. 25 सहसमः सधिसमि ॥ ३. २. १२३ ॥ सहसम् इत्येतयोः स्थानेऽञ्चतौ क्विबन्ले उत्तरपदे परे यथासंख्यं सध्रि 20

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650