Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 626
________________ [पा०-२. सू० ६३-६४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६३ चत्वारिंशदादौ वा ॥ ३. २. ६३ ॥ द्वित्र्यष्टानां प्राक्शताच्चत्वारिंशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा वा भवन्ति, अनशीतिबहुव्रीहौ। द्वाभ्यामधिका द्वौ च चत्वारिंशच्चेति वा द्वाचत्वारिंशत्, द्विचत्वारिंशत्, त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्, अष्टाचत्वारिंशत्, अष्टचत्वारिंशत्, द्वापञ्चाशत्, द्विपञ्चाशत्, 5 त्रयःपञ्चाशत्, त्रिपञ्चाशत्, अष्टापञ्चाशत्, अष्टपञ्चाशत्, द्वाषष्टिः, द्विषष्टिः, त्रयःषष्टिः, त्रिषष्टिः, अष्टाषष्टिः, अष्टषष्टिः, द्वासप्ततिः, द्विसप्ततिः, त्रयःसप्ततिः, त्रिसप्ततिः, अष्टासप्ततिः, अष्टसप्ततिः, द्वानवतिः, द्विनवतिः, त्रयोनवतिः, त्रिनवतिः, अष्टानवतिः, अष्टनवतिः। अनशीतिबहुव्रीहावित्येव ? द्वयशीतिः, त्र्यशीतिः, अष्टाशीतिः, द्विश्चत्वारिंशत्, द्विचत्वारिंशाः, एवं10 त्रिचत्वारिंशाः अष्टौ चत्वारिंशतोऽस्मिन् अष्टचत्वारिंशत् । पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् ।। ६३ ।। हृदयस्य हल्लासलेखाण्ये ॥ ३. २. ६४ ॥ हृदयशब्दस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे हृदित्ययमादेशो भवति । लास,-हृदयस्य लासो हृल्लासः, लेख,-हृदयं लिखतीति15 हृल्लेखः, अण संनिधानाल्लेखशब्दोऽणन्तो गृह्यते, तेन घबन्ते न भवति, हृदयस्य लेखः हृदयलेखः, अण, हृदयस्येदं हार्दम्,-सौहार्दम्, दौहार्दम्, य,हृदयस्य प्रियः हृद्यः, हृदयस्य बन्धनो मन्त्रः हृद्यः, हृदये भवं हृदयाय हितम् हृद्यम् । अणीत्येव सिद्धे लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न भवति । 'खित्यनव्यय-[३. २. १११.] इत्यादौ तु असंभवात्त-20 दन्तग्रहणम्-हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्धे हृदादेश विधानं लासादिषु हृदयशब्दप्रयोगनिवृत्त्यर्थम्, अन्यत्र तूभयं प्रयुज्यते, सौहार्यम्, सौहृदय्यम्, हृच्छोकः, हृदयशोकः, हृद्रोगः, हृदयरोगः, हृच्छकुः, हृदयशङ्कुः, हृच्छू लम्, हृदयशूलम्, हृच्छल्यम्, हृदयशल्यम्, हृद्दाहः, हृदयदाहः, हृद्द :खम्, हृदयदुःखम्, हृत्कमलम्, हृदयकमलम्, हृत्पुण्डरीकम्, हृदयपुण्डरीकम् इत्यादि ।। ६४ ।। 25

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650