Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ८४.]
कर्णशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । दात्रमिव दात्रम्, दात्रं चिह्न कर्णे यस्य स दात्रमिव वा कणौं यस्य स दात्राकर्णः पशुः, एवं शङ्ककर्णः, द्विगुणाकर्णः, द्वयगुलाकर्णः। स्वामिचिह्नस्येति किम् ? शोभनकर्णः । स्वामिग्रहणं किम् ? लम्बकर्णः अविद्धकर्णः, शिशुः । चिह्नग्रहणं किम् ? वाहनस्य कर्णः वाहनकर्णः विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः, 5 पञ्चकर्णः, भिन्नकर्णः, छिन्नकर्णः, छिद्रकर्णः, स्रवकर्णः, स्वस्तिककर्णः । कर्ण इति किम् ? चक्रसक्थः ।। ८४ ।।
न्या० स०--स्वामि०। चिह्न करोति णिज् ततः स्वामी चिह्नयते येन 'वर्षादयः क्लीबे' [५. ३. २६.] इत्यल् । तद्वाचिन इति कर्णस्य यथा स्वरूपेण ग्रहणं नैवं स्वामिचिह्नस्य । एतच्च विष्टादीनां चिह्नवाचिनां दीर्घप्रतिषधात् ज्ञायते ।10 स्वरूपग्रहणे हि विष्टादीनां प्रतिषेधो व्यर्थः स्यात् । द्विगुणाकर्ण इति द्विगुणं चिह्न कणे यस्य । द्वयगुलाकर्ण इति द्वे अङ गुले मानमस्य द्वे अङ गुली मानमस्येति वा वाक्ये तद्धितप्रत्यये विषयभूते 'संख्याव्ययादङ गुले:' [ ७. ३. १२४. ] इति डः । पश्चान्मात्र, 'द्विगो: संशये च' [७. १. १४४.] इति लुप् द्वयङ गुलं कर्णयोर्यस्य यद्वा द्वयोरङ गुल्यो: समाहारः ‘संख्याव्ययादङ गुलेर्डः' [७. ३. १२४.] द्व्यङ गुलं15 कणे यस्य । शोभनकर्ण इति शोभनत्वमनेकविधमिति तच्चिह्नमपि न भवति । लम्बकर्णत्वं त्वेकविधमिति चिह्न भवति परं न स्वामिनः इति परस्परं सादृश्यं नास्ति ।
वाहनकर्ण इति उह्यते तेन करणेऽनट् 'वाह्याद्वाहनस्य' [२. ३. ७२.] इति निर्देशाद् दीर्घः । यद्वा वहनमेव 'प्रज्ञादिभ्योऽण' [ ७. २. १६५. ] यदवा वाह्यते तदिति णिगन्तात् भुजिपत्यादित्वादनटि वाहनम् । विष्टकणं इत्यादि विष्टं प्रविष्टं20 व्याप्तं वा चिह्न कर्णे यस्य विशेविषेरशोटेश्च कर्मणि क्त विष्टाष्टशब्दौ । संख्यावचनो वाऽष्टशब्दः । एवं पञ्चशब्दोऽपि। भिदेश्छिदेश्च क्त .'रदादमूर्छ' [ ४. २. ६६. ] इति दतयोर्नत्वे छिन्नभिन्नौ छिदेः 'ऋज्यजि' ३८८ (उणादि) इति रे छिद्र, स्रवत्यस्मादिति 'निघृषि' ५११ (उणादि) इति किति वप्रत्यये स्र वः । स्वस्तिशब्दोऽव्ययं स्वस्ति कायति स्वस्तिकः । विष्टं कर्णे यस्य । अष्टं कर्णे यस्य । संख्यापक्षे तु अष्टौ25 कर्णेऽस्य । अष्टपञ्चशब्दौ चाऽत्र अष्टगुणे पञ्चगुणे च चिह्नविशेषे वर्त्तते । भिन्नौ कण्णौं यस्य । छिन्नौ कण्णौं यस्य, भेदच्छेदौ हि स्वामिविशेषज्ञापनाय कर्णयोः क्रियेते। एवं छिद्रमपि । स्र वाकारं चिह्न स्रवेणोच्यते । स्वस्तिकः साक्षादेव चिह्न तत्कणे यस्य । चक्रसक्थ इति चक्र सक्थनि अस्य 'सक्थ्यक्ष्णः स्वाङ्ग ट:' [७. ३. १२६. ] । ३. २.८४ ।।
30
Loading... Page Navigation 1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650