Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 619
________________ ५८६ ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० ७८-७९.] अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३. २. ७८ ॥ अजिरादिवजितबहस्वराणां शरादीनां च मतौ प्रत्यये दीर्घोऽन्तादेशो भवति, नाम्नि । बहुस्वर,-उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती, अमरावती, शरादि,-शरावती, वंशावती, शुचीमती, कुशावती, धूमावती, अहीवती, कपीवती, मुनीवती, मणीवती, वार्दावान्नाम गिरिः, 5 वेटावान्नाम गिरिः । शर, वंश, शुचि, कुश, धूम, अहि, कपि, मुनि, मणि, वार्द वेट इति शरादिः। बहुवचनमाकृतिगणार्थम् । तेन ऋषीवती, मृगावती, पद्मावती, वातावती, भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् ? व्रीहिमती, इक्षुमती, द्रमती, मधुमती । बहुस्वरस्यानजिरादिविशेषणं किम् ? अजिरवती, खदिरवती, खपुरवती,10 स्थविरवती, पुलिनवती, मलयवती, हंसकारण्डववती, चक्रवाकवती, अलंकारवती, शशाङ्कवती । हिरण्यवती, अजिरादिराकृतिगणः । नाम्नीत्येव ? वलयवती कन्या, शरवती तूणा ।। ७८ ॥ न्या० स०-अनजिरा०। उदुम्बरावतीति उदुम्बराः सन्त्यस्यामित्यादिश्चातुरथिको नद्यां मतुः 'नाम्नि' [ २. १. ६५. ] इति मस्य वः । पुष्करावतीति पुष्करशब्दात्15 मत्वर्थवर्ज मतुः मत्वर्थे तु 'पुष्करादेर्दशे' [७. २. ७०.] इतीन् स्यात् । शुचीमती इत्यत्र शुचिरस्त्यस्यां नोादित्वाद् वत्वाभावः। वार्दावानिति वारं ददातीति 'पातो ड' [५. १. ७६. ] इति ड: वार्दा मेघास्ते सन्त्यत्र 'मध्वादे:' [ ६. २. ७३. ] इति मतुः । वेटावानिति वेटन्ति पक्षिभिरऽचि वेटा वृक्षास्ते सन्त्यत्र । मलयवतीति मलयस्य पर्वतस्य अदूरभवा 'नद्यां मतुः' [ ६. २. ६२. ] हंसकारण्डववतीति हंसश्च कारण्डवश्च हंसका-20 रण्डवावस्यां स्तः मतुः । यदा हंसकारण्डवतीति दृश्यते । तदा करण्ड : 'प्रज्ञादिभ्योऽण्' [७. २. १६५.] हंसस्य कारण्डः हंसकारण्डः । चक्रवाकवतीति चक्रस्येव वाको वाग्यस्य चक्रशब्देनोच्यते वा घन ॥ ३. २. ७८ ।। ऋषौ विश्वस्य मित् ॥ ३. २. ७६ ॥ विश्वशब्दस्य मित्त्रे उत्तरपदे, ऋषावभिधेये नाम्नि विषये,25 दीर्घोऽन्तादेशो भवति । विश्वामित्रो नामर्षिः। ऋषाविति किम् ? विश्वमित्रो माणवकः नाम्नीत्येव ? विश्व मित्रमस्य विश्वमित्रो मुनिः ।। ७६ ॥

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650