Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 618
________________ [पा० २. सू० ७६-७७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८५ कोटरमिश्रकसिधकपुरगसारिकस्य वणे ॥ ३. २. ७६ ॥ कोटरादीनां कृतरणत्वे वनशब्दे उत्तरपदे दीर्घोऽन्तादेशो भवति 'नाम्नि' संज्ञायां विषये । कोटरावणम्, मिश्रकावणम्, सिध्रकावणम्, पुरगावणम्, सारिकावणम्, 'पूर्वपदस्थान्नाम्न्यगः' [२. ३. ६५.] इति गत्वे सिद्धे कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः, तेन पूर्वपदस्थादिति 5 सूत्रेण वनशब्दस्य णत्वमाकारसंनियोगे एव भवति, ततश्च कुबेरवनम्, शतधारवनम् इत्यादौ संज्ञायामपि णत्वं न भवति ।। ७६ ।। न्या० स०-कोटर० । पूर्वपदस्थादिति अथ समासे कृते दीर्घ च नामत्वाद् वनशब्दस्य पूर्वपदस्थादित्येव णत्वं भविष्यति किमर्थं कृतणत्वस्य वनशब्दस्य निर्देश इत्याशङ्का । पुरगावणमिति पुरं गच्छतीति 'नाम्नो गमः' [ ५.१.१३१] इति ड: ।10 सारिकावरणमिति सारोऽस्त्येषां 'अतोऽनेक' [७.२.६] इति इक: कुबेरवनमिति । कुत्सितं कुष्ठित्वात् बेरं शरीरमऽस्य ।। ३. २. ७६. ।। अजनादीनां गिरौ ॥ ३. २. ७७ ॥ अञ्जनादीनां गिरावुत्तरपदे दीर्घोऽन्तादेशो भवति, नाम्नि । अञ्जनागिरिः, भाञ्जनागिरिः, किंशुकागिरिः, किंशुलकागिरिः, साल्वागिरिः,15 लोहितागिरिः, कुक्कुटागिरिः, खद् नागिरिः, नलागिरिः, पिङ्गलागिरिः । अञ्जनादीनामिति किम् ? कृष्णगिरिः, श्वेतगिरिः । नाम्नीत्येव ? अञ्जनस्य गिरिः-अजनगिरिः । अञ्जन, भाञ्जन, किंशुक, किंशुलक, साल्व, लोहित, कुक्कुट, खद् न, (खडून) नल, पिङ्गल इत्यञ्जनादिः । बहुवचनमाकृतिगणार्थम् ।। ७७ ।। 20 न्या० स०-अञ्जनादीनां० । अञ्जनागिरिरिति अञ्जनवृक्षस्य उपचाराद् गिरिरञ्जनागिरिः। भाञ्जनागिरिरिति भज्यतेऽनेन भजनः तत्र कुशलः कुशलेऽणि भाजनो राजा। साल्वागिरिरिति सल्यन्ते व्यवहारिभिरिति ‘सलेरिणद् वा' ५१० (उणादि) इति वे साल्वा जनपद:। खद्रूनागिरिरिति अश्नुते भावान् 'अशेडित्खः' ८७ (उणादि) खं दूनमेभिः ? खदूना वृक्षाः । नलागिरिरिति गल गन्धेऽच् । पिङ्गला-25 गिरिरिति 'पातोडोऽह्वावामः' [ ५.१.७६. ] इति ड: ।। ३. २. ७७ ।।

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650