________________
[पा० २. सू० ७६-७७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८५
कोटरमिश्रकसिधकपुरगसारिकस्य वणे ॥ ३. २. ७६ ॥
कोटरादीनां कृतरणत्वे वनशब्दे उत्तरपदे दीर्घोऽन्तादेशो भवति 'नाम्नि' संज्ञायां विषये । कोटरावणम्, मिश्रकावणम्, सिध्रकावणम्, पुरगावणम्, सारिकावणम्, 'पूर्वपदस्थान्नाम्न्यगः' [२. ३. ६५.] इति गत्वे सिद्धे कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः, तेन पूर्वपदस्थादिति 5 सूत्रेण वनशब्दस्य णत्वमाकारसंनियोगे एव भवति, ततश्च कुबेरवनम्, शतधारवनम् इत्यादौ संज्ञायामपि णत्वं न भवति ।। ७६ ।।
न्या० स०-कोटर० । पूर्वपदस्थादिति अथ समासे कृते दीर्घ च नामत्वाद् वनशब्दस्य पूर्वपदस्थादित्येव णत्वं भविष्यति किमर्थं कृतणत्वस्य वनशब्दस्य निर्देश इत्याशङ्का । पुरगावणमिति पुरं गच्छतीति 'नाम्नो गमः' [ ५.१.१३१] इति ड: ।10 सारिकावरणमिति सारोऽस्त्येषां 'अतोऽनेक' [७.२.६] इति इक: कुबेरवनमिति । कुत्सितं कुष्ठित्वात् बेरं शरीरमऽस्य ।। ३. २. ७६. ।।
अजनादीनां गिरौ ॥ ३. २. ७७ ॥
अञ्जनादीनां गिरावुत्तरपदे दीर्घोऽन्तादेशो भवति, नाम्नि । अञ्जनागिरिः, भाञ्जनागिरिः, किंशुकागिरिः, किंशुलकागिरिः, साल्वागिरिः,15 लोहितागिरिः, कुक्कुटागिरिः, खद् नागिरिः, नलागिरिः, पिङ्गलागिरिः । अञ्जनादीनामिति किम् ? कृष्णगिरिः, श्वेतगिरिः । नाम्नीत्येव ? अञ्जनस्य गिरिः-अजनगिरिः । अञ्जन, भाञ्जन, किंशुक, किंशुलक, साल्व, लोहित, कुक्कुट, खद् न, (खडून) नल, पिङ्गल इत्यञ्जनादिः । बहुवचनमाकृतिगणार्थम् ।। ७७ ।।
20
न्या० स०-अञ्जनादीनां० । अञ्जनागिरिरिति अञ्जनवृक्षस्य उपचाराद् गिरिरञ्जनागिरिः। भाञ्जनागिरिरिति भज्यतेऽनेन भजनः तत्र कुशलः कुशलेऽणि भाजनो राजा। साल्वागिरिरिति सल्यन्ते व्यवहारिभिरिति ‘सलेरिणद् वा' ५१० (उणादि) इति वे साल्वा जनपद:। खद्रूनागिरिरिति अश्नुते भावान् 'अशेडित्खः' ८७ (उणादि) खं दूनमेभिः ? खदूना वृक्षाः । नलागिरिरिति गल गन्धेऽच् । पिङ्गला-25 गिरिरिति 'पातोडोऽह्वावामः' [ ५.१.७६. ] इति ड: ।। ३. २. ७७ ।।