________________
५८४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ७४-७५.]
गवि युक्ते ॥ ३. २. ७४ ॥
अष्टन्शब्दस्य गव्युत्तरपदे युक्त ऽभिधेये दीर्घोऽन्तादेशो भवति । अष्टागवं शकटम्, अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीहौ कृते उत्तरपदे परे द्वयोद्विगुः 'गोस्तत्पुरुषात्' [७. ३. १०५.] इत्यः समासान्तः, तत्र दीर्घत्वेन युक्तार्थसंप्रत्ययाद्गतार्थत्वाद्युक्तशब्दस्य निवृत्तिः, अथवा-समाहार- 5 द्विगुः, तत्र साहचर्यादुपचारादष्टगवेन युक्त शकटमष्टागवमुच्यते, गवीति किम् ? अष्टतुरगो रथः । युक्त इति किम् ? अष्टगवम् ब्राह्मणधनम्, अष्टगुश्चैत्रः ।। ७४ ।।
न्या० स०--गवि युक्त । अष्टौ गावो युक्ता अस्मिन् शकटे अष्टागवं शकटमिति उक्त ततश्च अन्यपदार्थे शकटेऽभिधेये किमिति समासः क्रियते यतोऽष्टौ गावो युक्ता इति 10 कथं न क्रियते यत इति कृतेऽपि युक्तोऽर्थो गम्यते। यतोऽष्टौ गावो युक्ताः कोऽर्थोऽष्टौ गावः संबद्धा इत्यर्थ इति युक्तोऽर्थोऽत्रापि गम्यते तत्कथमऽन्यपदार्थे क्रियते ? उच्यते, प्रत्यासत्तिन्यायात् यदा तैर्गोभिर्युक्त वाच्यं शकटं भवति तदाऽनेनाकार इष्यते। यतस्तैर्गोभिर्युक्त शकटमेवासन्नमस्तीति प्रत्यासत्तिः। तहि कथं गवीति किं अष्टतुरगो रथ इत्यत्र द्वयङ्गविकलत्वं व्यावृत्तेर्यतो युक्तोऽप्यर्थो नास्ति ? उच्यते, अष्टौ तुरगा अस्य15 रथस्येत्यत्र विद्यते षष्ठी सा च योज्ययोजकसंबन्धऽस्ति । ततश्च योज्यास्तुरगाः संबद्धाः कर्तव्याः केन ? योजकेन देवदत्तलक्षणेन परं सहसामर्थ्याद् रथेनैवैति युक्तोऽर्थोऽस्तीति न द्वयङ्गविकलत्वं व्यावृत्तेः । उपचारो ह्यनेकधाऽत प्राह साहचर्यादिति । अष्टतुरगो रथ इति अष्टानां तुरगाणां समाहारः पात्रादित्वात् अष्टतुरगमत्राऽस्ति अभ्रादित्वादः । इदं यदि न क्रियते तदा द्वयङ्गविकलता स्यात् । अष्टगवमिति अष्टानां गवां समाहारे 'गोस्तत्पुरुषात्'20 [७.३.१०५.] अट् समासान्तः ।। ३. २. ७४ ।।
नाम्नि ॥ ३. २. ७५ ॥
अष्टन्शब्दस्योत्तरपदे परे नाम्नि संज्ञायां दीर्घोऽन्तादेशो भवति । अष्टौ पदान्यत्र अष्टापदः कैलाशः, अष्टापदं-सुवर्णम् अष्टावक्रो मुनिः, अष्टाविटपो नाम कश्चित् । नाम्नीति किम् ? अष्टदण्डः, अष्टगुण-25 मैश्वर्यम् ।। ७५ ।।
___ न्या० स०-नाम्नि। अष्टापदमिति अष्टसु लोहेषु पदं प्रतिष्ठा यस्य तत् ।। ३. २. ७५ ।।