________________
[पा० २. सू० ७१-७३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८३
न वनिषेधे ॥ ३. २. ७१ ॥
महतः पुंवन्निषेधविषये उत्तरपदे डा न भवति । महती प्रिया अस्य महतीप्रियः, महतीमनोज्ञः ।। ७१ ।।
इच्यस्वरे दीर्घ आच्च ॥ ३. २. ७२ ॥
इच्प्रत्ययान्तेऽस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ प्राकारश्चान्तादेशो 5 भवति । बाहुषु च बाहुषु च मिथो गृहीत्वा व्यासक्त बाहूबाहवि व्यासजेताम्, बाहाबाहवि, एवं केशाकेशि, मुष्टिभिश्च, मुष्टिभिश्च प्रहृत्य कृतं युद्धं मुष्टीमुष्टि, मुष्टामुष्टि, एवं यष्टायष्टि, यष्टीयष्टि दण्डादण्डि, दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घसाहचर्यादात्वमपि स्वरान्तानामेव भवति, तेनेह न भवति, दोर्दोषि, धनुर्धनुषि । अस्वर इति किम् ? अस्यसि,10 इष्विषवि ।। ७२ ।।
न्या० स०--इच्यस्वरे०। साहचर्यादिति स्वरस्य ह्रस्वदीर्घप्लुता: इति न्यायादित्यर्थः ।। ३. २. ७२ ।।
हविष्यष्टनः कपाले ॥ ३. २. ७३ ॥
हविष्यभिधेयेऽष्टन्शब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति । 15 अष्टसु कपालेषु संस्कृतम्-अष्टाकपालं हविः । हविषीति किम् ? अष्टानां कपालानां समाहारः-अष्टकपालम्, पात्रादित्वात्स्त्रीत्वाभावः । कपाल इति किम् ? अष्टपात्रं हविः ।। ७३ ।।
न्या० स०--हवि० । प्रायोगिकस्य बहुसंख्यार्थाभिधायकस्याऽष्टन् इत्यनुकरणम्, तत: प्रायोगिकस्यैकसंख्यस्य शब्दस्याभिधायकमिति षष्ठयेकवचनम् । अनुक्रियमाणस्य 20 स्वरूपविनाशप्रसङ्गात् 'अनोऽस्य' [ २. १. १०८. ] इत्यकारलोपो न भवति । अष्टाकपालमिति अत्राष्टनो व्यञ्जनान्तत्वाव्यभिचाराद् दीर्घ परविधौ नलोपस्या (क्वचिदऽसत्त्वेऽपीति पाठः स च प्रकटार्थः) भावेऽपि दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयान्त्यत्वाद्वा दीर्घोऽनेन ।। ३.२.७३ ।।