________________
५८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६९-७०.]
महद्घासः, महाविशिष्टः, महद्विशिष्टः। महत इति किम् ? राजकरःकरादिष्विति किम् ? महतः पुत्रः महत्पुत्रः, डकारोऽन्त्यस्वरादिलोपार्थः, स च उत्तरार्थः ।। ६८ ।।
स्त्रियाम् ॥ ३. २. ६६ ॥
स्त्रियां वर्तमानस्य महतः करादिषूत्तरपदेषु नित्यं डा अन्तादेशो भवति । 5 महत्याः करः-महाकरः, एवं महाघासः, महाविशिष्टः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति पूर्वेणैव सिद्धे, नित्यार्थमिदम् ।। ६६ ।।
जातीयैकार्थेऽच्वेः ॥ ३. २. ७० ॥
महतोऽव्यन्तस्य जातीय प्रत्यये, एकार्थे चोत्तरपदे डान्तादेशो भवति । महान् प्रकारोऽस्य इत्यादि, महाजातीयः, महाजातीया । एकार्थे,-महांश्वासौ10 वीरश्च महावीरः । एवं महामुनिः, महान् भागोऽस्य-महाभागः। एवं महायशाः। महती चासौ देवी च-महादेवी, एवं महाराज्ञी, महती कीर्तिरस्य महाकीर्तिः, महास्तुतिः, महांश्चासौ करश्च, महान् करोऽस्येति वा महाकरः, एवं महाघासः, महाविशिष्टः, महान्तमात्मानं मन्यते महामानी, एवं महंमन्यः-खशि डाह्रस्वत्वे मोऽन्तः । जातीय-एकार्थ इति किम् ? प्रकृष्टो महान् महत्तरः, महत्याः15 पुत्रो महतीपुत्रः, महत्याः पतिः महतीपतिः, अच्वेरिति किम् ? अमहान् महान् संपन्नो महद्भूतश्चन्द्रमाः, अमहती महती संपन्ना महद्भूता कन्या ।। ७० ।।
न्या० स०--जातीयका। महाकर इति करादिष्वपि सामानाधिकरण्य (सामानाधिकरण्ये परत्वादिति पाठान्तरम्) फलत्वान्नित्यमस्य प्रवृत्ति दर्शयितुमाह-20 एकार्थ इति किमिति नन्वेकार्थ इति किमर्थं जातीये चेति कृतेऽपि चकारेण उत्तरपदाकर्षणात् तेन च समासाक्षेपात् लक्षणप्रतिपदोक्तपरिभाषया च ‘सन्महत्परम' [३.१.१०७.] इति प्रतिपदोक्तस्यैव समासस्य ग्रहणाल्लाक्षणिके षष्ठीतत्पुरुषे न भविष्यति ? नैवं, षष्ठीतत्पुरुषवत् महान् भागोऽस्येत्यादौ बहुव्रीहावपि न स्यात् । महान् संपन्न इति संपन्न इत्यर्थकथनम्, अमहान् महान् भूत इति तु दृश्यमऽन्यथा च्वेरऽभावः ।। ३. २. ७० ।।25