________________
[पा० २. सू० ६७-६८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५८१
इत्यनुवर्तते । एकस्वरस्य ड्यन्तस्य तरादिषु प्रत्ययेषु, ब्रुवादिषु चोत्तरपदेषु स्त्र्येकार्थेषु ह्रस्वोऽन्तादेशो भवति वा । स्त्रितरा, स्त्रीतरा, ज्ञस्य भार्या जी, ज्ञितमा, शीतमा, अस्यापत्य स्त्री ई, इरूपा, ईरूपा, कस्य भार्या की, किकल्पा, कीकल्पा, जिब्रुवा, ज्ञोब्र वा, इचेली, ईचेली, किगोत्रा, कीगोत्रा, स्त्रिमता, स्त्रीमता, स्त्रिहता, स्त्रीहता--एकस्वरोणामिति किम् ? कुटीतरा, द्रणीतमा, 5 आमलकीतरा, बदरीतमा, कवलीरूषा। ङ्य इत्येव ? श्रीतरा, हीतमा, धीरूपा, एकार्थ इत्येव ? स्त्रिया हता-स्त्रीहता। नित्यदितामनेकस्वराणामपीच्छन्त्येके, तन्मते,--ग्रामलकितरा, बदरितमा, कुवलिरूपा, लक्ष्मिकल्पा, तन्त्रितरेत्याद्यपि भवति ।। ६६ ।।
न्या०स०--नवैक० । ज्ञीतमा कीकल्पा इत्यादौ ह्रस्वविकल्पपक्षे पुवन्न भवति,10 धवयोगे ङ्यां पश्चात्संज्ञाविवक्षायां 'तद्धिताकको' [३. २. ५४.] इति निषेधात् कौण्डिन्यागस्त्ययोरिति ज्ञापकेन पुभावाऽनित्यत्वाद्वा । ईरूपा इत्यत्र तु गोत्रं च चरणैः सहेति जातित्वे 'स्वाङ्गान्डीः' [ ३. २. ५६. ] इति निषेधात् रूपसाम्याद्वा न पुवत् । ईचेलीत्यत्रापि 'पुवत्कर्मधारये' [ ३. २. ५७. ] इत्यनेन प्राप्त: पुभावोऽनित्यत्वान्न भवति । कुटोतरेति परतः स्त्रीत्वाभावात् 'ड्यः' [ ३. २. ६४. ] इत्यपि नित्यं ह्रस्वो न15 भवति ।। ३. २. ६६ ।।
ऊङः ॥ ३. २. ६७ ॥
ऊङन्तस्य तरादिषु प्रत्ययेषु, ब्रु वादिषु चोत्तरपदेषु स्त्र्येकार्थेषु वा ह्रस्वो भवति । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा, वामोरुतमा, वामोरूतमा, मद्रबाहुरूपा, मद्रबाहूरूपा, कमण्डलुकल्पा, कमण्डलूकल्पा, कद्र ब्र वा, कद्र ब्र वा,20 पगुचेली, पङ्चेली, श्वश्रुगोत्रा, श्वश्रूगोत्रा, कुरुमता, कुरूमता, भीरुहता, भीरूहता। एकार्थ इत्येव ? भीर्वा हता-भीरूहता ।। ६७ ।।
महतः करघासविशिष्टे डाः ॥ ३. २. ६८ ॥
करादिषूत्तरपदेषु महतो डा इत्ययमन्तादेशो वा भवति । वैयधिकरण्ये इयं विभाषा, सामानाधिकरण्ये तु परत्वादुत्तरेण नित्य एव विधिः । महतां25 करः महाकरः, महत्करः, कर एव कार इति महाकारः, महत्कारः, महाघासः,