________________
५८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६५-६६.]
एकार्थेष ह्रस्वोऽन्तादेशो भवति । गौरितरा, गौरितमा, नर्तकिरूपा, कुमारि- । कल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता। परत्वाद्यथाप्राप्तं वद्भावं बाधते । ङय इति किम् ? मद्रिकातरा, कारिकातमा, दत्तारूपा, सेनानीरूपा, ग्रामणीकल्पा। परतः स्त्रिया इत्येव ? बदरीतरा, आमलकीतरा । एकार्थ इत्येव ? ब्राह्मण्या हता ब्राह्मणीहता, 5 'नवैकस्वराणाम्' [३. २. ६६.] इत्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः ।। ६४ ॥
न्या० स०---यः। परत्वादिति दर्शनीयतरा विद्वद्वन्दारिकेत्यादौ पुभावः सावकाशः, नर्तकिरूपेत्यादौ तु कोपान्त्यत्वात् पुभावप्रतिषेधादयं विधिः गौरितरेत्यादौ तुभयप्राप्तौ 'स्पर्द्ध परः' [ ७. ४. ११६.] इति परत्वादयमेव विधिरित्यर्थः । 'मलि 10 मल्लि धारणे' । आमलिषीष्ट पुष्पफलानीति 'तिक्कृतौ नाम्नि' [ ५. १. ७१. ] इति अकः । अथवा अमण अामयति श्लेष्मप्रधानमिति आमलकी। 'कीचक' ३३ (उणादि) इति अकान्तो निपात्यते 'जातेरयान्त' [२. ४. ५४.] इति डी। यन्मते नित्यस्त्री तन्मते गौरादित्वात् डी । स्वमते तु त्रिलिङ्गः ।। ३. २. ६४ ।।।
भोगवद्गोरिमतोर्नाम्नि ॥ ३. २. ६५ ॥
भोगवद्गौरिमतोर्नाम्नि संज्ञायां वर्तमानयोर्डीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेष्वेकार्थेषु ह्रस्वो भवति । भोगवतितरा, भोगवतितमा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्र वा, गौरिमतिचेली, भोगवतिगोत्रा, गौरिमतिमता, भोगवतिहता । नाम्नीति किम् ? भोगवतितरा, भोगवत्तरा, भोगवतीतरा, एवं गौरिमतितरेत्यादि । उदित्त्वात्पूर्वेण20 त्रैरूप्यम् ।। ६५ ।।
न्या० स०--भोगवद्। भोगवतीति भोगा: सर्पकञ्चुकाः सन्त्यस्यां भोगावती नाम नदी 'अनजिरादि' [३. २. ७८.] इति दीर्घत्वं ततोऽत एव निर्देशात् पूर्वस्य ह्रस्वत्वम् । गौरिमतीत्यत्र तु 'ड्यापो बहुलम्' [२.४.६६.] इति मतो ह्रस्वः । गौरीति गौरस्यापत्यं इञ् 'नुते:' [ २. ४. ७२. ] इति ङी: गौरादित्वाद्वा ।। ३. २. ६५ ।। 25
नवैकस्वराणाम् ॥ ३. २. ६६ ॥ बहुवचनात्परतः स्त्रीति निवृत्तम्, सामान्येन तु विधानम्, स्त्र्येकार्थे