Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५७४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० २. सू ५७ ]
आकृतिग्रहरणा जातिः, अत्रिलिङ्गा च यान्विता । आजन्मनाशमर्थानां सामान्यमपरे विदुः ।। १ ।।
अत्र प्रथमजातिलक्षणानुसारेण कुमारीभार्यः, किशोरीभार्य इति भवति, द्वितीयजातिलक्षणानुसारेण कुमारभार्यः, किशोरभार्य इति भवति, न हि कुमारत्वादि उत्पत्तेः प्रभृत्याविनाशमनुवर्तते । स्वाङ्गादिति किम् ? पटुभार्यः । ङीरिति किम् ? सकेशभार्यः । श्रमानिनीति किम् ? दीर्घकेशमानिनी, कठमानिनी -- असमासनिर्देशः सुखार्थः ।। ५६ ।।
5
न्या० स०-- स्वाङान्ङी० । शूद्रेति शीयते वर्जयति षट् कर्माणीति शूद्रः 'शदेरूच्च' ३९४ ( उणादि) पूर्वत्र जातिलक्षणे उक्तऽपि प्रत्रैवंविधा जातिग्रह्यति वैचित्र्यार्थमाह- श्राकृतिग्रहणेति ततश्च प्राकृतिग्रहरणा जातिरिति प्रथमा जातिः । अनया 10 च कुमारीभार्यः किशोरीभार्य इति सिद्धम् । अत्रिलिङ्गा च यान्विता श्राजन्मनाशम
नामिति द्वितीया, केचित्तु श्राजन्मनाशमर्थानामन्विता इति प्राकृतिग्रहरणा जातिरित्यस्य विशेषणं कुर्वन्ति तन्मताभिप्रायेण कुमारभार्यः किशोरभार्य इत्येव भवति । न हि कुमारत्वादि उत्पत्तेः प्रभृति प्राविनाशमऽनुवर्त्तते ।। ३. २. ५६ ।।
पुंवत्कर्मधारये ॥ ३. २. ५७ ।।
परतः स्त्र्यनूङ् कर्मधारये समासे स्त्र्येकार्थे उत्तरपदे परे पुंवद्भवति, प्रतिषेधनिवृत्त्यर्थं प्रारम्भः । नाप्रियादौ [ ३. २. ५३ ] इत्युक्तं तत्रापि भवति, कल्याणी चासौ प्रिया च कल्याणप्रिया, एवं कल्याणमनोज्ञा, 'तद्धिताककोपान्त्यपूरण्याख्या:' [ ३. २. ५४. ] इत्युक्तं तत्रापि भवति, - मद्रिका चासौ भार्या च मद्रकभार्या, लाक्षिकबृहतिका, पाचकवृन्दारिका, कारक - 20 वृन्दारिका, पञ्चमवृन्दारिका, षष्ठवृन्दारिका, दत्तवृन्दारिका, गुप्तवृन्दारिका, 'तद्धितः स्वरवृद्धिहेतुर रक्तविकारे' [३. २. ५५. ] इत्युक्तं तत्रापि भवति, माथुरी चासौ वृन्दारिका च माथुरवृन्दारिका, स्रौघ्नवृन्दारिका, 'स्वाङ्गान्ङीजतिश्चामानिनि' [ ३. २. ५६ ] इत्युक्तं तत्रापि भवति, -- चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमुखवृन्दारिका, दीर्घकेशवृन्दारिका, कठवृन्दारिका, बह वृच - 25 वृन्दारिका, वतण्डस्यापत्यं वातण्ड्यः, स्त्री चेत् वतण्डी, सा चासौ वृन्दारिका च वातण्ड्यवृन्दारिका, गर्गस्यापत्यं गार्ग्यः स्त्री चेत् गार्गी, सा चासौ
15
Loading... Page Navigation 1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650