Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 610
________________ [ पा० २. सू० ६०-६१.] श्री सिद्ध हेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७७ [ ७. २. १६२. ] इत्यपि । तेन देव एव देवतेतिवत् नामग्रहणे इति न्यायाद् देवीशब्दादपि तलि देवतेति सिद्धम् । ऐश्वर्यरूपगुणाभिधायकत्वाद् देवीशब्दोऽपि गुणवचनः । जातिवाचित्वे तु देव्येव देवीता देव्या भावो देवीत्वं देवीतेति भवति । गुरण इति गुणद्वारेण गुणिनि वर्त्तमानो गुणवचनो गृह्यते । गुणमात्रवृत्तेरस्त्रीलिङ्गत्वात् पुभावाप्राप्तिरिति कठत्वमिति ननु कठोत्वमिति गुरण इति व्यावृत्तौ कथं दर्शितं यतोऽत्र 5 गुण इत्यसत्यपि जाते पुभावप्रतिषेधादेव न भविष्यति ? नैवं, सर्वापवादत्वादस्य । किंच कर्त्रीत्वं कर्त्रीता इत्यादिक्रियाशब्दार्थं गुणग्रहणं कर्त्तव्यमेव तस्मिंश्च सति जातावपि प्रत्युदाह्रियते । केचित्रिवति तन्मतसंग्रहार्थं गुणो विशेषरणमित्यपि व्याख्येयम् ।। ३. २. ५६ ॥ च्वौ क्वचित् ॥ ३. २. ६० ॥ परत: स्त्री अनूङ् च्वौ पुंवद्भवति क्वचिल्लक्ष्यानुरोधेन । महती महती भूता मद्भूता कन्या, एवं बृहत्कृता क्वचिद्ग्रहणादगोमती गोमतीभूता गोमतीभूतेत्यादौ न स्यादेव, पट्वीभूता पटूभूता, मृद्रीकृता मृदूकृतेत्यादौ विकल्पः । महतीभूतेत्यपि केचित् ।। ६० ।। 10 सर्वादयोःस्यादौ ॥। ३. २. ६१ ॥ सर्वादिर्गणः परतः स्त्री पुंवत् भवति, 'अस्यादौ' स्यादिश्चेत्ततः परो न भवति । सर्वासां स्त्रियः सर्वस्त्रियः भवत्याः पुत्रः भवत्पुत्रः, एकस्याः क्षीरमेकक्षीरम्, एकस्या आगतमेकरूप्यम्, एकमयम्, तया प्रकृत्या - तथा, एवं यथा, तस्यां वेलायां तदा, एवं यदा कदा सर्वदा, अन्यदा तर्हि, यहि, कहि, सर्वामिच्छति, सर्वकाम्यति, भवत्काम्यति, एककाम्यति, परत्वात्प्रतिषेध - 20 विषयेऽपि भवति, सर्वा प्रियाऽस्य सर्वप्रियः, एवं सर्वमनोज्ञः, सर्विका भार्याऽस्य सर्वकभार्यः, एवं विश्वकभार्यः । सर्वादय इति किम् ? कन्यापुरम्, कुमारीनिवासः । अस्यादाविति किम् ? सर्वस्यै, दक्षिणपूर्वस्यै, उत्तरपूर्वस्यै । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्व सर्वादेरपि भवति, दक्षिणोत्तरपूर्वाणाम् इयादि ।। ६१ ।। न्या० स० -- सर्वादयो० । तया प्रकृत्येति स्त्रीत्वव्यक्त्यर्थमिदं वाक्यं तेन प्रकारेणेति वक्तव्ये । अथ चात्र पुंवद्भावः किमर्थः समजनि ? उच्यते, अत्र पुंवद्भावे सति 15 25

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650