Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 615
________________ ५८२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ६९-७०.] महद्घासः, महाविशिष्टः, महद्विशिष्टः। महत इति किम् ? राजकरःकरादिष्विति किम् ? महतः पुत्रः महत्पुत्रः, डकारोऽन्त्यस्वरादिलोपार्थः, स च उत्तरार्थः ।। ६८ ।। स्त्रियाम् ॥ ३. २. ६६ ॥ स्त्रियां वर्तमानस्य महतः करादिषूत्तरपदेषु नित्यं डा अन्तादेशो भवति । 5 महत्याः करः-महाकरः, एवं महाघासः, महाविशिष्टः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति पूर्वेणैव सिद्धे, नित्यार्थमिदम् ।। ६६ ।। जातीयैकार्थेऽच्वेः ॥ ३. २. ७० ॥ महतोऽव्यन्तस्य जातीय प्रत्यये, एकार्थे चोत्तरपदे डान्तादेशो भवति । महान् प्रकारोऽस्य इत्यादि, महाजातीयः, महाजातीया । एकार्थे,-महांश्वासौ10 वीरश्च महावीरः । एवं महामुनिः, महान् भागोऽस्य-महाभागः। एवं महायशाः। महती चासौ देवी च-महादेवी, एवं महाराज्ञी, महती कीर्तिरस्य महाकीर्तिः, महास्तुतिः, महांश्चासौ करश्च, महान् करोऽस्येति वा महाकरः, एवं महाघासः, महाविशिष्टः, महान्तमात्मानं मन्यते महामानी, एवं महंमन्यः-खशि डाह्रस्वत्वे मोऽन्तः । जातीय-एकार्थ इति किम् ? प्रकृष्टो महान् महत्तरः, महत्याः15 पुत्रो महतीपुत्रः, महत्याः पतिः महतीपतिः, अच्वेरिति किम् ? अमहान् महान् संपन्नो महद्भूतश्चन्द्रमाः, अमहती महती संपन्ना महद्भूता कन्या ।। ७० ।। न्या० स०--जातीयका। महाकर इति करादिष्वपि सामानाधिकरण्य (सामानाधिकरण्ये परत्वादिति पाठान्तरम्) फलत्वान्नित्यमस्य प्रवृत्ति दर्शयितुमाह-20 एकार्थ इति किमिति नन्वेकार्थ इति किमर्थं जातीये चेति कृतेऽपि चकारेण उत्तरपदाकर्षणात् तेन च समासाक्षेपात् लक्षणप्रतिपदोक्तपरिभाषया च ‘सन्महत्परम' [३.१.१०७.] इति प्रतिपदोक्तस्यैव समासस्य ग्रहणाल्लाक्षणिके षष्ठीतत्पुरुषे न भविष्यति ? नैवं, षष्ठीतत्पुरुषवत् महान् भागोऽस्येत्यादौ बहुव्रीहावपि न स्यात् । महान् संपन्न इति संपन्न इत्यर्थकथनम्, अमहान् महान् भूत इति तु दृश्यमऽन्यथा च्वेरऽभावः ।। ३. २. ७० ।।25

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650