Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 587
________________ ५५४ ] बृहद्वृत्ति-लन्याससंवलिते [पा० २. सू० २०-२२.] पादादिभ्यः' [ ७. २. १५२. ] इत्यकल् । नह्यतेऽनया 'नीदाव्' [ ५. २. ८८.] इति । त्रट् ॥ ३. २. १६ ॥ तत्पुरुषे कृति ॥ ३. २. २० ॥ अद्वयञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुष समासे लुब् न भवति, नाम्नीति निवृत्तम् । स्तम्बे रमते स्तम्बेरमः, एवं कर्णेजपः, 5 पात्रेसमितः, प्रवाहेमूत्रितम्, उदकेविशीर्णम्, अवतप्तेनकुलस्थितम्, व्यञ्जनभस्मनिहुतम्, भस्मनिमीढम् । बहुलाधिकारात्क्वचिदन्यतोऽपि गोषुचर । क्वचिन्निषेधो न भवति-मद्रचरः, ग्रामकारकः । क्वचिद्विकल्पः-खचरः, खेचरः, वनेचरः, वनचरः पङ्क रुहम्, पङ्करुहम्, सरसिरुहम्, सरोरुहम्, दिविषत्, द्युसत् । क्वचिदन्यदेव-हृदयं स्पृशति, हृदिस्पृक्,-द्वितीयार्थेऽत्र 10 सप्तमी, एवं दिविस्पृक् । तत्पुरुष इति किम् ? धन्वनि कारका यस्य स धन्वकारकः, एवं कल्याणाभिनिवेशः, धर्मरुचिः। कृतीति किम् ? अक्षशौण्डः, अक्षकितवः अव्यञ्जनादित्येव ? .. कुरुषु चरति कुरुचरः, एवं रात्रिचरः, नदीचरः, कथं परमे कारके उत्तमे कारके इति विग्रहे परमकारके उत्तमकारके तिष्ठतीत्यत्र सप्तम्या लुब् भवति ? उच्यते-15 अन्तरङ्गत्वात्प्रथमान्तयोरेव परमोत्तमशब्दयोः कारकशब्देन समास इति ताभ्यां सप्तम्येव नास्ति, यद्वा कृतीति कृनिमित्ताया एव सप्तम्या लुप्रतिषेधः, इह तु तिष्ठत्यादिक्रियापेक्षेति लुप् भवत्येव ।। २० । मध्यान्ताद्गुरी ॥३. २. २१ ॥ मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे लुप् न20 भवति । मध्येगुरुः, अन्तगुरुः मध्यगुरुः, अन्तगुरुरित्यप्यन्ये ।। २१ ॥ न्या० स०–मध्यान्ता। अत्र समासविशेषस्यानुपादानात् यथा तत्पुरुषे लुक् न भवति तथा बहुव्रीहावपि ।। ३. २. २१ ॥ अमूर्धमस्तकात्स्वानादकामे ॥ ३. २. २२ ॥ मूर्धमस्तकशब्दवर्जितात्स्वाङ्गवाचिनोऽद्वयञ्जनान्ताच्छब्दात्परस्याः 25

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650