Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 591
________________ ५५८ ] बृहवृत्ति-ल.न्याससंवलिते [पा० २. सू० ३०-३३.] तत्र कृद्धातोविधीयते तद्धितोऽपि प्रथमान्तादस्यास्त्युपाधिकस्तस्मात् सप्तम्यन्तात् तयोविधानाऽसंभवात् तदन्ते उत्तरपदे सप्तम्या अलुप् प्रतिषिध्यत इति । ते वै विषय इति वैशब्दो हेत्वर्थे ततो 'वै' इत्यस्य यत इत्यर्थः । परानुग्राहकं हि शास्त्रं तत्र केचित् तीक्ष्णधियस्तान् प्रति संक्षेपेण प्रणयनम् । केचिन्मन्दधियस्तान् प्रति प्रपञ्च प्रारभ्यते । ३. २. २६ । षष्ठया क्षेपे ॥ ३. २. ३० ॥ क्षेपे गम्यमाने उत्तरपदे परे षष्ठ्या लुप् न भवति । चौरस्यकुलम्, दासस्यभार्या, वृषल्याःपतिः। क्षेप इति किम् ? ब्राह्मणकुलम् । कथं चौरकुलं, दासभार्या, वृषलीपतिः । तत्त्वाख्यानमेतन्न क्षेपः ।। ३० ।। न्या० स०--षष्ठयाः क्षेपे। अत्र पूर्वपदात् क्षेपे अलुप् इष्यते तेन भूपस्य 10 जाल्मो भूपजाल्म इत्यत्र लुबेव भवति । एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरितिक इति न्यायात् न्याय्यम् ॥ ३. २. ३०॥ पुत्रे वा ॥ ३. २. ३१ ॥ पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठया लुप् वा न भवति । दास्याःपुत्रः, दासीपुत्रः, वृषल्याःपुत्रः, वृषलीपुत्रः । क्षेपे इत्येव ? ब्राह्मणपुत्रः ।15 दासीपुत्र इति तु तत्त्वाख्याने । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ।। ३१ ।। पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥ ३. २. ३२ ॥ पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठ्या यथासंख्यं हरयुक्तिदण्डेषूत्तरपदेषु लुब् न भवति । पश्यतोहरः, अनादरे षष्ठीयम्, जनं पश्यन्तमनादृत्य हर्तेत्यर्थः, वाचोयुक्तिः, दिशोदण्डः, संबन्धषष्ठ्यौ ।। ३२ ।। न्या० स०--पश्यद्वाग् । पश्यतोहर इत्यत्र यदा पश्यतां हर इति क्रियते तदा अलुप भवति वा नवा ? उच्यते, शब्दशक्तिस्वाभाव्यात् समासस्याप्यगमकत्वे समासाभावात् लुगपि न प्राप्नोति । यदा तु अर्थात् प्रकरणाद् वा बह्वर्थो ज्ञायते तदा भवत्येवाऽलुप् ।। ३. २. ३२ ।। अदसोऽकायनणोः ॥ ३. २. ३३ ॥ अदसः परस्या षष्ठया अकञ्प्रत्ययविषये उत्तरपदे प्रायनण प्रत्यये च 20 25

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650