Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 592
________________ [पा० २. सू० ३४-३५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५६ परे लुप् न भवति । अमुष्य पुत्रस्य भावः प्रामुष्यपुत्रिका, एवमामुष्यकुलिका, चौरादित्वादकम्, अमुष्यापत्यमामुष्यायणः, नडादित्वादायनण , अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपदसंभवः ।। ३३ ।। न्या० स०--अदसो०। अकञ्प्रत्ययविषये उत्तरपदे इत्युक्त ततश्चाकञ्प्रत्ययविषय इति विशेषणमत्तरपद इति विशेष्यं ततश्चाकाप्रत्ययविषय इति भिन्नविशेषणं कथं 5 क्रियते । अकञ्प्रत्ययान्तं यदुत्तरपदं तस्मिन् विषये कथं न भण्यते ? उच्यते, प्रत्ययस्यैव ग्रहणं भवति, प्रत्ययग्रहणं च 'नवा खित्' [ ३. २. ११७. ] इत्यत्रान्तग्रहात्, तहि 'नेन्सिद्धस्थे[ ३.२.२६.] इति सूत्रे इनः कथं प्रत्ययमात्रस्यैव ग्रहणं न भवति? उच्यते, असंभवात्, तह्यत्रापि असंभवात् ग्रहीष्यते अकञ्प्रत्ययान्ते उत्तरपद इति । नैवं ग्रहणं भवति असंभवात् । किं त्वत्र प्रत्ययस्य संभवात्प्रत्ययस्यैव ग्रहणं भवति, यतो विषयव्याख्याने 10 षष्ठ्यन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अकञ्प्रत्ययः संभवत्येव । न च वाच्यमनन्तरे एव किमिति न भवति। यतोऽदसः परो नास्त्यऽकञ् अमुष्यपुत्र इति चौरादिपाठात् । अथ चौरिका इत्यत्राकान्तमुत्तरपदं संभवति ततः कथमकान्ते उत्तरपदे इति न भरिणतं यथा अमुष्यचौरिकेति ? उच्यते, अकान्तस्य निषेधोऽपि भवति, षष्ठया लुबभावस्य यथा अदश्चौरिका। प्रत्ययग्रहणे संभवे सति प्रत्ययमात्रस्यैव ग्रहणं भवतीत्याह-अदस इत्यादि ।15 प्रामुष्यपुत्रिकेति ननु अमुष्यपुत्राऽमुष्यकुलशब्दयोः षष्ठीसमासयोरकृतषष्ठीलोपयोश्चौरादित्वादमुष्येति च षष्ठयन्तस्य नडादिपाठसामर्थ्यादेवाकत्रायनणोः, षष्ठ्या लुबभावस्य सिद्धत्वात् किमर्थमिदमारभ्यते । एवं चामुष्यपुत्रस्यापत्यमामुष्यपुत्रिः प्रामुष्यपुत्रायणिः अमुष्यकुलस्यापत्यममुष्यकुलीनः अमुष्य पुत्रस्य भावोऽमुष्य कुलस्य भाव इति च वाक्यममुष्यपुत्राऽमुष्यकुल इति च केवलयोरपि प्रयोग उपपद्यते । गणपाठश्च पूर्वसूत्रेभ्य इति20 स एव प्रमाणी क्रियतामिति ? सत्यं, एतदर्थानुवादार्थमेवेदमित्यऽदोषः, एतच्च गमनिकामात्रमेव उत्तरं तु अन्यच्चिन्तनीयं । तदेतद् अस्मिन् सूत्रे कृतेऽकायनविषय एव अलुप् प्रवर्तते, सूत्रं विना तु सर्वत्रापि प्रादःपुत्रीत्यादिषु अलुप् प्रसज्येत । इदानीं तु न भवति ।। ३. २. ३३ ॥ देवानांप्रियः ॥ ३. २. ३४ ॥ 25 देवानांप्रिय इति षष्ठ्या लुबभावो निपात्यते, देवानांप्रियः ।। ३४ ।। न्या० स०-देवानां०। कथं देवप्रिय इति ? एकत्वद्वित्वयोर्बहुव्रीही वा भविष्यति । देवानांप्रिय ऋजुर्मूखों वा ।। ३. २. ३४ ॥ शेषपुच्छलाङ्ग्लेषु नाम्नि शुनः ॥ ३. २. ३५ ॥ श्वन्शब्दात् परस्याः षष्ठ्याः शेपादिषूत्तरपदेषु नाम्नि संज्ञायां विषये30

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650