________________
[पा० २. सू० ३४-३५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५६
परे लुप् न भवति । अमुष्य पुत्रस्य भावः प्रामुष्यपुत्रिका, एवमामुष्यकुलिका, चौरादित्वादकम्, अमुष्यापत्यमामुष्यायणः, नडादित्वादायनण , अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपदसंभवः ।। ३३ ।।
न्या० स०--अदसो०। अकञ्प्रत्ययविषये उत्तरपदे इत्युक्त ततश्चाकञ्प्रत्ययविषय इति विशेषणमत्तरपद इति विशेष्यं ततश्चाकाप्रत्ययविषय इति भिन्नविशेषणं कथं 5 क्रियते । अकञ्प्रत्ययान्तं यदुत्तरपदं तस्मिन् विषये कथं न भण्यते ? उच्यते, प्रत्ययस्यैव ग्रहणं भवति, प्रत्ययग्रहणं च 'नवा खित्' [ ३. २. ११७. ] इत्यत्रान्तग्रहात्, तहि 'नेन्सिद्धस्थे[ ३.२.२६.] इति सूत्रे इनः कथं प्रत्ययमात्रस्यैव ग्रहणं न भवति? उच्यते, असंभवात्, तह्यत्रापि असंभवात् ग्रहीष्यते अकञ्प्रत्ययान्ते उत्तरपद इति । नैवं ग्रहणं भवति असंभवात् । किं त्वत्र प्रत्ययस्य संभवात्प्रत्ययस्यैव ग्रहणं भवति, यतो विषयव्याख्याने 10 षष्ठ्यन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अकञ्प्रत्ययः संभवत्येव । न च वाच्यमनन्तरे एव किमिति न भवति। यतोऽदसः परो नास्त्यऽकञ् अमुष्यपुत्र इति चौरादिपाठात् । अथ चौरिका इत्यत्राकान्तमुत्तरपदं संभवति ततः कथमकान्ते उत्तरपदे इति न भरिणतं यथा अमुष्यचौरिकेति ? उच्यते, अकान्तस्य निषेधोऽपि भवति, षष्ठया लुबभावस्य यथा अदश्चौरिका। प्रत्ययग्रहणे संभवे सति प्रत्ययमात्रस्यैव ग्रहणं भवतीत्याह-अदस इत्यादि ।15 प्रामुष्यपुत्रिकेति ननु अमुष्यपुत्राऽमुष्यकुलशब्दयोः षष्ठीसमासयोरकृतषष्ठीलोपयोश्चौरादित्वादमुष्येति च षष्ठयन्तस्य नडादिपाठसामर्थ्यादेवाकत्रायनणोः, षष्ठ्या लुबभावस्य सिद्धत्वात् किमर्थमिदमारभ्यते । एवं चामुष्यपुत्रस्यापत्यमामुष्यपुत्रिः प्रामुष्यपुत्रायणिः अमुष्यकुलस्यापत्यममुष्यकुलीनः अमुष्य पुत्रस्य भावोऽमुष्य कुलस्य भाव इति च वाक्यममुष्यपुत्राऽमुष्यकुल इति च केवलयोरपि प्रयोग उपपद्यते । गणपाठश्च पूर्वसूत्रेभ्य इति20 स एव प्रमाणी क्रियतामिति ? सत्यं, एतदर्थानुवादार्थमेवेदमित्यऽदोषः, एतच्च गमनिकामात्रमेव उत्तरं तु अन्यच्चिन्तनीयं । तदेतद् अस्मिन् सूत्रे कृतेऽकायनविषय एव अलुप् प्रवर्तते, सूत्रं विना तु सर्वत्रापि प्रादःपुत्रीत्यादिषु अलुप् प्रसज्येत । इदानीं तु न भवति ।। ३. २. ३३ ॥ देवानांप्रियः ॥ ३. २. ३४ ॥
25 देवानांप्रिय इति षष्ठ्या लुबभावो निपात्यते, देवानांप्रियः ।। ३४ ।।
न्या० स०-देवानां०। कथं देवप्रिय इति ? एकत्वद्वित्वयोर्बहुव्रीही वा भविष्यति । देवानांप्रिय ऋजुर्मूखों वा ।। ३. २. ३४ ॥
शेषपुच्छलाङ्ग्लेषु नाम्नि शुनः ॥ ३. २. ३५ ॥ श्वन्शब्दात् परस्याः षष्ठ्याः शेपादिषूत्तरपदेषु नाम्नि संज्ञायां विषये30