________________
५५८ ]
बृहवृत्ति-ल.न्याससंवलिते
[पा० २. सू० ३०-३३.]
तत्र कृद्धातोविधीयते तद्धितोऽपि प्रथमान्तादस्यास्त्युपाधिकस्तस्मात् सप्तम्यन्तात् तयोविधानाऽसंभवात् तदन्ते उत्तरपदे सप्तम्या अलुप् प्रतिषिध्यत इति । ते वै विषय इति वैशब्दो हेत्वर्थे ततो 'वै' इत्यस्य यत इत्यर्थः । परानुग्राहकं हि शास्त्रं तत्र केचित् तीक्ष्णधियस्तान् प्रति संक्षेपेण प्रणयनम् । केचिन्मन्दधियस्तान् प्रति प्रपञ्च प्रारभ्यते । ३. २. २६ ।
षष्ठया क्षेपे ॥ ३. २. ३० ॥
क्षेपे गम्यमाने उत्तरपदे परे षष्ठ्या लुप् न भवति । चौरस्यकुलम्, दासस्यभार्या, वृषल्याःपतिः। क्षेप इति किम् ? ब्राह्मणकुलम् । कथं चौरकुलं, दासभार्या, वृषलीपतिः । तत्त्वाख्यानमेतन्न क्षेपः ।। ३० ।।
न्या० स०--षष्ठयाः क्षेपे। अत्र पूर्वपदात् क्षेपे अलुप् इष्यते तेन भूपस्य 10 जाल्मो भूपजाल्म इत्यत्र लुबेव भवति । एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरितिक इति न्यायात् न्याय्यम् ॥ ३. २. ३०॥
पुत्रे वा ॥ ३. २. ३१ ॥
पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठया लुप् वा न भवति । दास्याःपुत्रः, दासीपुत्रः, वृषल्याःपुत्रः, वृषलीपुत्रः । क्षेपे इत्येव ? ब्राह्मणपुत्रः ।15 दासीपुत्र इति तु तत्त्वाख्याने । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ।। ३१ ।।
पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥ ३. २. ३२ ॥
पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठ्या यथासंख्यं हरयुक्तिदण्डेषूत्तरपदेषु लुब् न भवति । पश्यतोहरः, अनादरे षष्ठीयम्, जनं पश्यन्तमनादृत्य हर्तेत्यर्थः, वाचोयुक्तिः, दिशोदण्डः, संबन्धषष्ठ्यौ ।। ३२ ।।
न्या० स०--पश्यद्वाग् । पश्यतोहर इत्यत्र यदा पश्यतां हर इति क्रियते तदा अलुप भवति वा नवा ? उच्यते, शब्दशक्तिस्वाभाव्यात् समासस्याप्यगमकत्वे समासाभावात् लुगपि न प्राप्नोति । यदा तु अर्थात् प्रकरणाद् वा बह्वर्थो ज्ञायते तदा भवत्येवाऽलुप् ।। ३. २. ३२ ।।
अदसोऽकायनणोः ॥ ३. २. ३३ ॥ अदसः परस्या षष्ठया अकञ्प्रत्ययविषये उत्तरपदे प्रायनण प्रत्यये च
20
25