________________
[पा० २. सू० २६-२६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५७
5
वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३. २. २६ ॥
वर्ष, क्षर, वर, अप्, सरस्, शर, उरस्, मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वालुप् भवति वर्षेजः, वर्षजः, क्षरेजः, क्षरजः, वरेजः, वरजः, अप्सुजम्, अब्जम्, सरसिजम्, सरोजम्, शरेजः, शरजः, उरसिजः, उरोजः, मनसिजः, मनोजः ।। २६ ।।
न्या० स०-वर्षः। क्षरतीत्यचि क्षरे मेघे जातः क्षरजः । क्षरशब्देन जलं मेघश्च उच्यते ॥ ३. २. २६ ।।
धुप्रावूड्वर्षाशरत्कालात् ॥ ३. २. २७ ॥
योगविभागाद्वेति निवृत्तम्, दिवप्रभृतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः,10 कालेजः ।। २७ ।।
अपो ययोनिमतिचरे ॥ ३. २. २८ ।।
अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः अप्सव्यः-दिगादित्वाद्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ।। २८ ।।
नेन्सिद्धस्थे ॥ ३. २. २६ ॥
इन्प्रत्ययान्ते सिद्ध स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप् न भवति, भवत्येवेत्यर्थः । इन्-स्थण्डिले वर्तते स्थण्डिलवर्ती, एवं स्थण्डिलशायी, सांकाश्यसिद्धः, काम्पील्यसिद्धः, समस्थः, विषमस्थः, 'शयवासी' [३. २. २५.] त्यादियोगद्वयविकल्पो 'धुप्रावृट्'-[ ३. २. २७. ] आदियोगद्वयविधिरनेन20 प्रतिषेधश्च, 'तत्पुरुषे कृति' [३. २. २०.] इत्यस्यैव प्रपञ्चः । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति ।। २६ ।।
न्या० स०-नेन्सिद्ध०। इन्प्रत्ययान्ते इति । इहोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविध्यभावे ज्ञापितेऽपि सामर्थ्यात्तदन्तविधिः। इन्प्रत्ययो हि द्विविधः कृत्तद्धितश्च,
15