________________
५६० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३६-३७.]
लुप् न भवति । शुन: शेपमिव शेपमस्य शुनःशेपः, एवं शुनःपुच्छः, ' शुनोलाङ्गुलः, शेपःशब्दः सकारान्तोऽप्यस्ति इह त्वकारान्तस्य ग्रहणम् । नाम्नीति किम् ? श्वशेपम्, श्वपुच्छम्, श्वलाङ्ग्लम् । अन्ये तु सिंहस्यशेपं सिंहस्यपुच्छं सिंहस्यलाङ्गुलमित्यत्रापि इच्छन्ति तन्मतसंग्रहार्थं बहुवचनम् अनाम्न्यपि विध्यर्थम् ।। ३५ ।।
न्या० स०-शेपपुच्छ० । अनाम्न्यपि विध्यर्थमिति प्रकृतेरन्यतोऽपि च इति शेषो ज्ञेयः, शेपशब्दस्य लिङ्गानुशासने पुलिङ्गत्वमुक्त पान्तत्वात् । अत्र तु नपुंसकत्वं चिन्त्यम् ।। ३. २. ३५ ।। वाचस्पतिवास्तोष्यतिदिवस्पतिदिवोदासम्
॥३. २. ३६ ॥10
वाचस्पत्यादयः शब्दाः षष्ठीलुबभावे निपात्यन्ते नाम्नि विषये । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवोदासः । नाम्नीत्येव ? वाक्पतिः, वास्तुपतिः, धुपतिः, धुदासः ।। ३६ ।।
न्या० स०-वाचस्पतिः। अत्र षत्वं सत्वं च निपातनात् ।। ३. २. ३६ ॥ ऋता विद्यायोनिसंबन्थे ॥ ३. २. ३७ ॥
15 ऋकारान्तानां शब्दानां विद्याकृते योनिकृते च संबन्धे निमित्ते सति वर्तमानानां संबन्धिन्याः षष्ठ्या विद्यायोनिसंबन्धे एव निमित्ते सति प्रवर्तमाने उत्तरपदे लुप् न भवति । होतुःपुत्रः, होतुरन्तेवासी, पितुःपुत्रः, पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः, मातुलान्तेवासी। बहुवचनं विद्यासंबन्धनिमित्ते योनिसंबन्धनिमित्ते इति यथासंख्यप्रतिपत्तेढुंदासार्थम् । 20 ऋद्भ्य इति निर्देश प्राप्ते षष्ठीनिर्देश उत्तरार्थः । विद्यायोनिसंबन्ध इति किम् ? भर्तृ गृहम् । पूर्वपदविशेषणं किम् ? भर्तृ शिष्यः, भर्तृ पुत्रः । उत्तरपदविशेषणं किम् ? होतृधनम्, पितृगृहम् ।। ३७ ।।
__ न्या० स०-ऋता-विद्या०। अत्र योनिशब्दस्यदन्तत्वात् पूर्वनिपाते प्राप्तेऽत एव निर्देशात् धर्मार्थादित्वाद् वा परनिपातः । पूर्वपदविशेषणं किमिति भर्तृ शिष्य इत्युक्त,25