________________
[पा० २. सू० ३८-३९.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६१
ततश्चात्र नायकवाचको द्रष्टव्यः, यदा तु भर्तृवाचकस्तदा भर्तृ : शिष्य इत्येव भवति ।। ३.२.३७॥
10
स्वसुपत्योर्वा ॥ ३. २. ३८ ॥
विद्यायोनिसंबन्धे निमित्ते सति प्रवर्तमानानामकारान्तानां शब्दानां संबन्धिन्याः षष्ठ्याः स्वसृपत्योरुत्तरपदयोर्योनिसंबन्धनिमित्तयोः परयोर्लुब् वा न 5 भवति । होतुःस्वसा, होतृस्वसा, पितुःष्वसा, पितुःस्वसा, पितृष्वसा, मातुःस्वसा, मातुःष्वसा, मातृष्वसा, दुहितुःपतिः, दुहितृपतिः, स्वसुःपतिः, स्वसृपतिः, ननान्दुःपतिः, ननान्दृपतिः। विद्यायोनिसंबन्ध इति पूर्वपदविशेषणं किम् ? भर्तृ स्वसा। उत्तरपदविशेषणं किम् ? होतृपतिः । पूर्वेण नित्यं प्रतिषेधे प्राप्ते विकल्पोऽयम् ।। ३८ ।।
न्या० स०--स्वसपत्योः। धर्मार्थादित्वात् स्वसृशब्दस्य पूर्वनिपातः ॥३. २. ३८ ॥
आ द्वन्द्वे ॥ ३. २. ३६ ॥
विद्यायोनिसंबन्धनिमित्ते सति प्रवर्तमानानामृतां यो द्वन्द्वस्तस्मिन्सत्युत्तरपदे परे पूर्वपदस्याकारोन्तादेशो भवति । होता च पोता च होतापोतारौ,15 नेष्टोद्गातारौं, प्रशास्ताप्रतिहर्तारौ, मातादुहितरौ, मातापितरौ, ननान्दायातरौ । अथेह प्रथमयोः कस्मान्न भवति होतृपोतृनेष्टोद्गातार इति ? अन्त्यस्यैवोत्तरपदत्वात् । कथं तर्हि होतापोतानेष्टोद्गातार इति ? द्वयोर्द्व योर्द्वन्द्व भविष्यति । यदा च होता च पोता च नेष्टोद्गातारौ चेति विग्रहस्तदा होतृपोतानेष्टोद्गातार इति । ऋतामित्येव ? गुरुशिष्यौ । ऋतां20 द्वन्द्व इति किम् ? पितृपितामहौ। विद्यायोनिसंबन्ध इत्येव ? कर्तृ कारयितारौ । विद्यायोनिसंबन्धश्च ह प्रयासत्तेः समस्यमानानामृदन्तानामेव परस्परं द्रष्टव्यो न येन केनचित्, तेनेह न भवति-चैत्रस्य स्वसृदुहितरौ, नात्र स्वसृदुहित्रोः परस्परं संबन्धः, न हि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमपेक्षते दुहिता स्वसारमिति । यद्येवं कथं चैत्रस्य पितृभ्रातराविति अस्ति, ह्यत्र25 परस्परसंबन्धः । उच्यते-यद्यपि चैत्रस्य भ्राता भ्राता भवन् पितरमपेक्षते