Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 590
________________ [पा० २. सू० २६-२६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५७ 5 वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३. २. २६ ॥ वर्ष, क्षर, वर, अप्, सरस्, शर, उरस्, मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वालुप् भवति वर्षेजः, वर्षजः, क्षरेजः, क्षरजः, वरेजः, वरजः, अप्सुजम्, अब्जम्, सरसिजम्, सरोजम्, शरेजः, शरजः, उरसिजः, उरोजः, मनसिजः, मनोजः ।। २६ ।। न्या० स०-वर्षः। क्षरतीत्यचि क्षरे मेघे जातः क्षरजः । क्षरशब्देन जलं मेघश्च उच्यते ॥ ३. २. २६ ।। धुप्रावूड्वर्षाशरत्कालात् ॥ ३. २. २७ ॥ योगविभागाद्वेति निवृत्तम्, दिवप्रभृतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः,10 कालेजः ।। २७ ।। अपो ययोनिमतिचरे ॥ ३. २. २८ ।। अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः अप्सव्यः-दिगादित्वाद्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ।। २८ ।। नेन्सिद्धस्थे ॥ ३. २. २६ ॥ इन्प्रत्ययान्ते सिद्ध स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप् न भवति, भवत्येवेत्यर्थः । इन्-स्थण्डिले वर्तते स्थण्डिलवर्ती, एवं स्थण्डिलशायी, सांकाश्यसिद्धः, काम्पील्यसिद्धः, समस्थः, विषमस्थः, 'शयवासी' [३. २. २५.] त्यादियोगद्वयविकल्पो 'धुप्रावृट्'-[ ३. २. २७. ] आदियोगद्वयविधिरनेन20 प्रतिषेधश्च, 'तत्पुरुषे कृति' [३. २. २०.] इत्यस्यैव प्रपञ्चः । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति ।। २६ ।। न्या० स०-नेन्सिद्ध०। इन्प्रत्ययान्ते इति । इहोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविध्यभावे ज्ञापितेऽपि सामर्थ्यात्तदन्तविधिः। इन्प्रत्ययो हि द्विविधः कृत्तद्धितश्च, 15

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650