________________
५२० ]
बृहद्वृत्ति-लधुन्याससंवलिते
[पा० १. सू० १३१-१३२.]
न्या स०--विरोधिनामद्रव्यागामिति । अत्र गुणादीनामाश्रयो द्रव्यं गृह्यते । न तु वैयाकरणप्रसिद्धमिदं तदित्यादिलक्षणम् । तस्मिस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः। छायातपमिति न भवति तयोर्द्रव्यत्वात् । सजातीयैरेवेति असमानजातीयमविरोधि यद्यवयवान्तरमस्य न भवतीत्यर्थः । एतावता विरोधिपदारब्धत्वेन द्वद्वस्य सजातीयारब्धत्वमुक्तम् । रूपरसगन्धस्पर्शाः इत्यत्र रूपादीनामेकस्मिन्नपि नारङ्गादिपदार्थे 5 . सहावस्थानाद् विरोधाभावान्नायं विधिरिति । सुखदुःखाविमौ इत्यत्र सुखदुःखौ शीतोष्णौ उपचाराद् द्रव्ये वर्तेते । बुद्धिसुखदुःखानीति अत्र सुखदुःखे विरोधिनी बुद्धिस्त्वविरोधिनीति अविरोध्यवयवोऽप्यसौ द्वंद्व इति वचनान्न कवद्भावः । समाहारे चेत्यादि अनेकश्च नियमो वाक्यभेदेन समर्थ्यते, सर्वत्राऽपि च प्रत्युदाहरणं व्यवच्छेद्यम् ।। ३. १. १३० ।।
अश्ववडवपूर्वापराघरोत्तराः ॥ ३. १. १३१ ॥
अश्ववडवेति पूर्वापरेति अधरोत्तरेति त्रयो द्वद्वा एकार्था वा भवन्ति, स्वैः । अश्वश्च वडवा चाश्ववडवम्, अश्ववडवौ-अश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते, पूर्वापरम्, पूर्वापरे, अधरोत्तरम् अधरोत्तरे, पशुविकल्पेनैव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम्, हयवडवे । स्वैरित्येव अजाश्ववडवाः न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम्-15 तेन पूर्वपश्चिमौ, दक्षिणापरौ, अधरमध्यमौ, उत्तरदक्षिणावित्यत्र विकल्पो न भवति ।। १३१ ।।
न्या० स०--अश्ववडव०। अजाश्ववडवा इति अत्रेतरेतर एव अन्यथा अश्ववडवेत्यस्य पशुद्वारो विकल्पः सिद्ध एवातो व्यावृत्त्यर्थं ग्रहणम् । न्यायादेवति समाहारेतरेतरलक्षणात् ।। ३. १. १३१ ॥
20
पशुव्यञ्जनानाम् ॥ ३. १. १३२ ।।
पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एक एकार्थो वा भवति । गौश्च महिषश्च गोमहिषम् गोमहिषौ, अश्वबलीवर्दम् अश्वबलीवदौं, वृष्णिस्तभम् वृष्णिस्तभौ, महाजोरभ्रम् महाजोरभ्रौ, व्यञ्जन-दधिघृतम्, दधिघृते, शाकसूपम्, शाकसूपौ। अश्वमहिषमित्यत्र तु परत्वात् 'नित्यवरस्य'25 [ ३. १. १४१. ] इति नित्यमेकत्वविधिः। स्वैरित्येव ? गोनरौ, दधिवारिणी, दध्युष्ट्रौ ।। १३२ ।।