________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५२१
न्या० स०-- पशुव्यञ्ज० । अत्रावयवावयविसंबन्धे षष्ठी, तेन पश्ववयवो व्यञ्जनावयवश्च द्वंद्व इत्यर्थः । अत्र पशवो ग्राम्या गवादयो ग्राह्या न त्वारण्या : कुरङ्गादयः । उत्तरत्र मृगग्रहणात् । व्यञ्जनमिति व्यञ्जनं येनान्न रुचिमापद्यते तद्दधिघृतशाकसूपादि । स्वरिति त्रापि पशुत्वेन व्यञ्जनत्वेन च स्वत्वम् । वृष्णिस्तभमित्यत्र स्तभेः सौत्रादचि स्तभोजः, पशुव्यखनानामिति बहुवचनात् बहूनां 5 पशु सेनाङ्गानां यदेकत्वं नित्यं तदनेन बाध्यते । तेन हस्त्यश्वं हस्त्यश्वा भवतीति
न्यास: ।। ३. १. १३२ ।।
[ पा० १. सू० १३३.]
तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥ ३. १. १३३ ॥
एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एक एकार्थो वा भवति । तरु, प्लक्षाश्च न्यग्रोधाच प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, एवं धवाश्वकर्णम् 10 धवाश्वकर्णाः, तृण–कुशकाशम् कुशकाशाः, मुञ्जवल्वजम् मुञ्जवल्वजाः, धान्य - तिलमाषं, तिलमाषाः, व्रीहियवम् व्रीहियवाः, मृग - रुरुपृषतम्, रुरुपृषताः, ऋश्यैणम्, ऋश्यैरणाः, पक्षिन् - हंसचक्रवाकम्, हंसचक्रवाकाः, तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः । एकस्यापि पदस्य बहुत्वे भवति - - प्लक्षश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, प्लक्षौ च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधा 15 इत्यादि । बहुत्व इति किम् ? प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, प्लक्षौ च न्यग्रोधौ च प्लक्षश्च न्यग्रोधौ चेति वा प्लक्षन्यग्रोधाः । स्वैरित्येव ? प्लक्षयवाः, गोपृषताः श्रारण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे सिद्धे मृगाणामिहोपादानम् प्रमृगैरबहुत्वे चैकत्वाभावार्थम् ।। १३३ ।
20
न्या० स०-- तरुतृण० । तरुरिति सामान्येनोक्त ेऽपि तरुविशेषा गृह्यन्ते । तेन तरवश्व वृक्षाश्चेति धवाश्व वृक्षाश्चेति वा कृते इतरेतरयोग एव । प्लक्षाश्चेत्यादि ननु वृत्तौ वत्तिपदार्थानामभेदैकत्वसंख्याया एव भावात् कथमत्र बहुत्वम् ? नैवं यत्र संख्या भेदप्रतिपत्तौ निबन्धनमस्ति तत्र वत्तिपदान्यपि तमेव संख्याभेदमुपाददते । बहुत्वपरिग्रहे चाऽत्र एकवद्भावो निबन्धनं तत्रैव तस्य भावादित्यदोषः । हंसचक्रवाकमित्यत्र चक्र - 25 वाकमित्यत्र चक्र इति वाक आख्या यस्य । अथवा वचनं वाकश्र्चक्रस्येव वाको येषां ते चक्रवाकाः । प्लक्षौ च न्यग्रोधौ चेति तरुतृणादीनां द्वद्वावयवानामेव बहुत्व इति विशेषणात् द्वंद्वस्य बहुत्वेऽपि न समाहारः । अमृगैरबहुत्वे चेति यदा ग्राम्यपशूनामरण्यपशुभिः सहोक्तिर्भवति तदा माभूदित्यर्थः ।। ३. १. १३३ ।।