________________
५२२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १३४.]
सेनाकक्ष दजन्तूनाम् ॥ ३. १. १३४ ॥
सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एक एकार्थो नित्यं भवति, पृथग्योगाद्वति निवृत्तम् । सेनाङ्गम्, अश्वाश्च रथाश्चाश्वरथम्, रथिकाश्वारोहम्, हस्त्यश्वम्, केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं विकल्पमिच्छन्ति-हस्त्यश्वम् हस्त्यश्वाः । क्षुद्रजन्तवोऽल्पकायाः प्राणिन प्रानकुलमिह 5 स्मर्यन्ते, यूकालिक्षम्, यूकामत्कुणम्, दंशमशकम्, शतश्वश्चोत्पादकाश्च शतशूत्पादकम् । कीटपिपीलिकम् । बहुत्व इत्येव ? सादिनिषादिनौ, अश्वरथौ, यूकालिखे, स्वैरित्येव ? हस्तिमशकाः ॥ १३४ ॥
न्या० स०-सेनाङ्गक्षुद्र०। अत्रापि सेनाङ्गत्वादिना स्वत्वं । एषु सर्वेषु बहुवचनमेकार्थविधेः क्वचिदन्यत्वख्यापनार्थमित्युपाध्यायसंप्रदायः । पृथग्योगादिति अन्यथा-10 र्थस्य समानत्वात् पूर्वेणैकयोगः स्यादित्यर्थः। अत्र यथाश्वरथमिति भवति तथा हस्त्यश्वारोहमिति न स्वकीयत्वाभावात् । न च वाच्यं सेनाङ्गत्वेन स्वत्वमिति । यतो सेनाङ्गेष्वपि पारोह्याणामारोह्यणारोहकाणामारोहकेण च स्वत्वमिष्यते । अत्र च न तथेति । एवं प्राणितूर्याङ्गाणामित्यत्राऽपि तूर्याङ्गेषु वाद्यानां वाद्येन वादकानां वादकेन च स्वत्वं दृश्यम् । केचित्त्वित्यत्र जयादित्यः, इदं तु 'पशुव्यञ्जनानाम्' [३. १. १३२.] 15 इति सूत्रे बहुवचनात् संगृहीतम् । क्षुद्रजन्तव इत्यत्र क्षुद्रशब्दोऽनेकार्थः, क्वचिदङ्गहीने शीलहीने। शोलहीनेऽत्र वर्तते यथा 'क्षुद्राभ्य एरण्वा' [६. १.८०] इति, अत्र हि शीलहीना अङ्गहीनाश्च स्त्रियो विज्ञायन्ते । क्वचित् कृपणे वर्तते यथा क्षुद्रो देवदत्तः, क्वचिदल्पपरिमाणे-यथा क्षुद्रास्तन्दुला इति । तत्रेह प्रतिषेधविषये प्रारम्भोपयोगात् क्षुद्राः प्राणिन एव प्रतिपाद्यन्ते इति जन्तुग्रहणमतिरिच्यते, तस्मात्तदुपादानसामर्थ्यादल्प-20 परिमाणाः प्राणिविशेषाः क्षुद्रजन्तुशब्देनोच्यन्ते इत्याह-क्षुद्रजन्तव इति ।
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतिर्येषां केचिदा नकुलादपि ॥ १॥ क्षुद्रजन्तुरकाङ्कालो, येषां स्वं नास्ति शोणितम् ।
नाञ्जलिर्यत् सहस्रण केचिदा नकुलादिति ।। २ ॥ ____ द्वे अप्येकार्थे । आनकुलमिह स्मर्यन्ते इत्यत्र नकुलादारभ्य ये हीनकाया वा नकुलादयस्ततोऽप्यपचितपरिमाणाश्च यावत् कुन्थव इति क्षुद्रजन्तवः शिष्टः स्मर्यन्ते । यूकालिक्षमित्यत्र 'ऋजिऋषि' ५६७ (उणादि) इति कित् सप्रत्यये ऋफिडादित्वाद् रस्य लत्वम् ।। ३. १. १३४ ।।