________________
[पा० १. सू० १३५-१३६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२३
10
फलस्य जातौ ॥३. १. १३५ ॥
फलवाचिनां शब्दानां बहुत्वे वर्तमानानां जातौ विवक्षायां स्वर्द्वन्द्व एक एकार्थो भवति । बदराणि चामलकानि च बदरामलकम्, कुवलामलकम् । फलस्येति किम् ? ब्राह्मणक्षत्रियाः । जाताविति किम् ? व्यक्तिपरचोदनायां मा भूत्-एतानि बदरामलकानि तिष्ठन्ति । बहुत्वे इत्येव ? 5 बदरामलके, बदरामलकम् । स्वैरित्येव ? बदरशृगालाः ।। १३५ ।।
न्या० स०-फलस्य०। बदरामलकमिति बदर्या विकारः फलं 'हेमादिभ्योऽन्' [६. २. ४५.] अामलक्या विकारः फलं 'दोरप्राणिनः' [६. २. ४६.] मयट् । द्वयोरपि 'फले लुप्' [६. २. ५८.] । व्यक्तिपरेति व्यक्तिः परं प्रधानं यस्यां सा तथा चोदना उक्तिस्तत्र ।। ३. १. १३५ ।।
अप्राणिपश्वादेः ॥ ३. १. १३६ ॥
बहुत्व इति निवृत्तम्, पूर्वयोगारम्भात्, प्राणिभ्यः पश्वादिसूत्रोक्त भ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानां स्वैर्द्वन्द्व एक एकार्थो भवति । पारा च शस्त्री च पाराशस्त्रि, धाना च शष्कुली च धानाशष्कुलि, एवं युगवस्त्रम्, कुण्डबदरम्, तरुशैलम्, जातावित्येव । विन्ध्यहिमालयौ,15 नन्दकपाञ्चजन्यौ, जातिविवक्षायामयं विधिः, व्यक्तिविवक्षायां तु यथाप्राप्तम्-पाराशस्त्रि पाराशस्त्र्याविमे। प्राणिपश्वादिजातिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम्, गोमहिषौ, गोमहिषम्, दधिघृते, दधिघृतम्, प्लक्षन्यग्रोधौ २, कुशकाशौ २, व्रीहियवौ २, रुरुपृषतौ २, हंसचक्रवाकौ २, अश्वरथौ २। अप्राणीति प्राणिनो द्रव्यस्य पर्युदासेना-20 प्राणिनो द्रव्यस्य ग्रहणादिह न भवति-रूपरसगन्धस्पर्शाः, उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि । स्वैरित्येव । बदरशृगालौ ।। १३६ ।।
न्या० स०-अप्रारिण। पूर्वयोगारम्भादिति फलस्याप्रारिणत्वेन अनेनैव सिद्धत्वात् । न च पूर्वयोगमन्तरेणात्र जाताविति न स्यादिति वाच्यं । अत्रैव जातिग्रहणं करिष्याम इति । द्रव्यभूता इत्यत्राप्राणीति पर्युदासेन तत्तुल्यस्य द्रव्यस्य प्रतिपत्तिस्तेषां25 च जाताविति विशेषणमित्याह-द्रव्यभूता इत्यादि। आराशस्त्रीति अत्र पाराशब्दो भिदादिः शस्त्रीविशेषवाचकः । तेन गोबलीवर्दन्यायेन सामान्यविशेषयोरत्र द्वंद्वो द्रष्टव्यः ।