________________
५२४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १३७.]
यत्राप्राणीति वचनात् प्राप्तिस्ते पश्वादिसूत्रोक्ता व्यञ्जनादयो ग्राह्याः । न तु पशवस्तत्र 'अप्राणि' [ ३. १. १३६. ] इत्यनेनैव निषेधसिद्धेः । धाना च शष्कुली च इत्यत्र शष्कुलीशब्दो गौरादौ व्युत्पादितः । अन्ये त्विमं पृषोदरादित्वान्मूर्द्धन्यादि पठन्ति । नन्दकपाञ्चजन्यावित्यत्र नन्दतात् 'आशिष्यकन्' [ ५.१.७० ] पञ्च च ते जनाव पञ्चजनाः । ‘संख्या समाहारे च' [ ३.१.२८. ] इति समासे कृते पञ्च जना यस्येति 5 ar बहुव्रीहौ 'गम्भीरपञ्चजन' [ ६. ३. १३५. इति ञ्यः । संज्ञाशब्दावेतावनादिनिधनयोर्वैष्णवयोः शङ्खखड्गयोर्वर्त्तेते ।
]
ब्राह्मणक्षत्रियविट्शूद्रा इति पत्र प्राणिवर्जनात् ब्राह्मणादीनां च प्राणित्वादयं नित्यो विधिर्न भवति । दधिघृते इत्यादिप्रयोगेषु च पश्वादिवर्जनात् दधिघृतादीनां च पश्वादिसूत्रोक्तत्वादनेन नित्यैकवद्भावाभाव:, ततश्च यथाप्राप्तमेव भवति । कुशकाशाविति 10 वा बहुत्व इति व्यावृत्तिर्व्यक्तिविवक्षायां चरितार्था इति जातावेकार्थता प्रसज्येत । अश्वरथाविति नन्वत्र यथा पश्वादिसूत्रोक्तवर्जने दधिघृते दधिघृतमित्यादिषु यथाप्राप्तस्य विधानं दशितमेवं 'फलस्य जातौ' [ ३. १. १३५. ] इत्यस्याऽपि व्यवच्छिन्नत्वात् कथमत्र यथाप्राप्तं न दर्शितम् ? उच्यते, पश्वादिमध्ये पूर्वसूत्रं न गण्यते, अस्यैव सूत्रस्य प्रपञ्चात् । ततः पूर्वसूत्रव्यावृत्त्यैव समाहारनिषेधात् जातौ एकत्वद्वित्वयोरितरेतरो भवति 15 न समाहारः । अतो न दर्शितं प्रत्युदाहरणम् । श्रप्राणीति अत्र जातिप्रदेशेषु द्रव्यजातेक्रियाजाचा विशे प्रेरण ग्रहणदृष्टान्तादिहाऽपि तद्वदेवेति यः शङ्कते तं प्रत्याह प्राणीति । रूपरसगन्धस्पर्शा इत्यत्र वैकल्पिकोऽपि समाहारो न 'विरोधिनाम्' [ ३. १. १३०. ] इति नियमस्य व्याख्यानतः । बदरशृगालाविति अत्र बदरप्रमाणी शृगालः प्राणीति ।। ३. १. १३६ ।।
20
प्राणितूर्याङ्गाणाम् ॥ ३. १. १३७ ॥
प्राण्यङ्गानां तूर्याङ्गाणां च स्वैर्द्वन्द्व एक एकार्थो भवति । प्राण्यङ्गदन्ताश्च प्रष्ठौ चेदं दन्तोष्ठम्, इदं शिरोग्रीवम्, इदं पाणिपादम् इदं कर्णनासिकम्, तूर्याङ्ग- शङ्खशाङ्खिकादिसमुदाय स्तूर्यम् अङ्गान्यवयवाः, इदं शंखपटहम्, इदं भेरीमृदङ्गम्, शांखिकमौरजिकम्, मार्दङ्गिकपाणविकम्, 25 वीणावादकपरिवादकम् । स्वैरित्येव ? पाणिगृधौ, पीठपटहौ, पारिणपणवौ । प्राण्यङ्गानां तूर्याङ्गेषु च शंखपटहादीनामप्राणिजातित्वात् पूर्वेण सिद्धे व्यक्तिविवक्षायां विधानार्थम् जातिविवक्षायां प्राण्यङ्गाप्राण्यङ्गादिसंभेद एकत्व निराकरणार्थं च वचनम्, एतज्ज्ञापनार्थमेव च बहुवचनम् ।। १३७ ।।
न्या० स० – प्राणितूर्या० । प्राण्यते एभिरिति 'व्यञ्जनाद् घञ्' [५. ३. १३२. ]30