________________
[पा० १. सू० १३८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५२५
प्राणास्ततो मत्वा यः । प्राणी च तूयं चेति समाहारे इतरेतरयोगे वा द्वद्वः ततस्तस्याङ्गशब्देन तत्पुरुषः । तत्र समाहारद्वद्वे समाहारस्याङ्गायोगात् समहारिण एवाङ्गसंबन्धो विज्ञायते, इतरेतरयोगे तु द्वंद्वस्यावयवप्रधानत्वात् स्पष्ट एवावयवस्याङ्गसंबन्धः। शङ्खशाङ्घिकादिसमुदायेति शङ्खादीनि वाद्यानि शाङ्खिकादयो वादकाः । 'भीवृथि' ३८७ (उणादि) इति रेफे ङ यां च भेरी। यदा मृदङ्गश्च शङ्खपटहं चेति क्रियते तदा समाहारो 5 न भवति, तूर्याङ्गसमुदायत्वात् । निराकरणार्थमिति पाणिपणवावित्यत्र 'अप्राणिपश्वादेः' [ ३. १. १३६. ] इति प्राप्तस्य पाणिपणवयोरप्राणित्वेन स्वत्वात् ।।३.१.१३७।।
चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥ ३. १. १३८ ॥
शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः, प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनमनुवादः, यज्ञकर्मणि शंसितानु-10 शंसनमित्येके, अनुकरणमित्यपरे, अद्यतन्यां परभूतायां यौ स्थेणौ तयोः अनुकथने कर्तृत्वेन संबन्धिनो ये चरणास्तद्वाचिनां शब्दानां स्वैर्द्वन्द्वोऽनुवादविषय एक एकार्थो भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथम् प्रत्यष्ठात् मौदपैष्पलादम्, एषामुदयप्रतिष्ठे कश्चिदनुवदति । चरणस्येति किम् ? उदगुस्तार्किकवैयाकरणाः । स्थेण इति किम् ? अगमन्कठकालापाः ।15 अद्यतन्यामिति किम् ? अतिष्ठन्कठकालापाः। अनुवाद इति किम् ? उदगुः कठकालापाः, अप्रसिद्ध कथयति । अन्ये तु स्थेणोद्यतनीप्रयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति, तन्मते इह न भवति-कटकालापाः प्रत्यष्ठुः, कठकौथुमा उदगुः ।। १३८ ।।
न्या० स०--चरणस्य०। प्रमाणान्तरप्रतिपन्नेति शब्दात् प्रमाणादन्यत् प्रत्य-20 क्षादि प्रमाणान्तरं तेन प्रतिपन्नम् । शंसितानुशंसनमिति शंसनं शंसः तं करोति णिच्, ततः क्तः, अन्यथा 'वेटोऽपतः' [ ४. ४. ६२. ] इतीटो निषधः । शंसितस्य कथितस्यानुशंसनम् । अनुकरणमिति पूर्वकृतस्य पश्चात् सादृश्येन वा करणं क्रिया। अनुकथने कर्तृत्वेनेति गौणमुख्ययो:* इति न्यायात् मुख्यवृत्त्या कर्ता लभ्यते । तेन यदा भावे प्रयोगस्तदा प्रत्यष्ठायि कठकालापाभ्यामिति भवति न तु समाहारः । कठकालापमिति25 करेन कलापिना प्रोक्त वेदं विदन्त्यऽधीयते वा 'तेन प्रोक्त' [ ६. ३. १८१. ] 'तद्वेत्यधीते' [६. २. ११७.] इत्यण् । तस्य प्रोक्तार्थस्य 'कठादिभ्यः' [६. ३. १८३. ] । इति चाणो लुप्। कालाप इत्यत्र तु 'कलापिकुथुमि' [ ७. ३. २४. ] इति इनो लुपि वृद्धौ कालापः।
कठकौथुममिति कुथेः 'उद्वटिकुल्यलि' ३५१ (उणादि) इति कित्युमे कुथुमं30