________________
५२६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[पा० १. सू० १३६.]
वमी ततो मत्वर्थीये इनि 'तेन प्रोक्त' [ ६.३. १८१. ] इत्याद्यविधिः । मौदपैष्पलादमिति मुदस्य मोदस्य वा पिष्पलादस्य चापत्यं 'ऋषिवृष्ण्यण्' [ ६. १. ६१. ] मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्य बाघको 'मौदादिभ्य:' [ ६. ३. १८२.] इत्यण् 'तवेत्त्यधीते' [६. २. ११७.] इत्यण् तस्य 'प्रोक्तात्' [ ६. २.१२९. ] इति लुप् । ताकिकेति तर्केण चरति तर्कः प्रयोजनमस्येति वा 'चरति ' [ ६. ४. ११. ] 'प्रयोजनम्' 5 [६.४.११७.] इति वा इकरिण, यद्वा तर्कं वेत्त्यधीते वा 'न्यायादेरिकरण ' [ ६.२.११८. ] परं तदा न्यायादिष्वपठितोऽपि दृश्यः ।। ३. १. १३८ ।।
अक्लीबेऽध्वर्यु क्रतोः ।। ३. १. १३६ ।।
अध्वर्यवो यजुर्वेदविदः, तेषां वेदोऽप्यध्वर्युः, तत्र विहिताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः, ससोमको यागः ऋतुः, अध्वर्युक्रतुवाचिनां शब्दानां 10 स्वैर्द्वन्द्व एक एकार्थो भवति, अक्लीबे क्लीबे चेदध्वर्युक्रतुवाची शब्दो न भवति । अर्कश्चाश्वमेधश्चार्काश्वमेधम्, साह्लातिरात्रम्, पौण्डरीकातिरात्रम्, अर्कादयः पुंलिङ्गाः । प्रक्लीबग्रहणं किम् ? गवामयनादित्यानामयने । प्रसज्यप्रतिषेधः किम् ? राजसूयं च वाजपेयं च राजसूयवाजपेये, इमौ ऋतू पुंलिङ्गावपि स्त इति पर्युदासाश्रयणेऽत्रापि स्यात् । अध्वर्युग्रहणं किम् ? इषुवत्रौ 15 उद्भिद्विलभदौ, इष्वादयः सामवेदे विहिताः । ऋतुग्रहणं किम् ? दर्शपौर्णमासौ ।। १३६ ।।
وا
न्या० स०-- प्रक्लीबे० । साङ्खातिरात्रमिति सह अह्ना वर्त्तते पृषोदरादित्वात् अह्नादेशे 'नाम्नि' [ ३. २. १४४. ] इति नित्यं सादेशः । यद्वा अह्नां समूहः 'अश्वादिभ्योऽञ्' ( ) अनीनाद्योऽनोऽस्य लुप् । सहाह्न ेन भवति ते सातश्चातिरात्रश्च 120 पुण्डरीको देवताऽस्य 'देवता' [ ६. २. १०१. ] इत्यरण । गवामयनादित्यानामयने इति श्रामीनातीति अच्, अमरण 'कुगुवलि' ३६५ ( उणादि ) इत्ययो वा । आमयं करोति 'णिज्बहुलं' [ ३. ४. ४२ ] ग्रामय्यन्ते सरोगीक्रियन्तेऽनेनानटि । ततो गवामामयनं गवामयनम् । अयनशब्दे वा उत्तरपदे बाहुलकात् षष्ठ्या प्रलुप् । तथा प्रदितेरपत्यानि आदित्या देवाः न श्रामयनं शेषं पूर्ववत् । प्रसज्यप्रतिषेधः किमिति क्लोबे चेदध्वर्यु ऋतु-25 वाची न भवतीति यः प्रसज्यप्रतिषेधो वृत्तौ दर्शितः स किमर्थः । प्रसज्यो हि नञ् क्रियया संबध्यते, इतरस्तु नाम्ना । राज्ञा सोतव्यो राजा वाऽत्र सूयते इति 'संचाय्यकुण्डपाय्य' [ ५. ४. २२. ] इति निपातः । वज्यत इति वाजः । कर्मणि घञ्, क्त सेट्त्वाद् गत्वाभावः पातव्यः पेयो वाजो यस्य ।