________________
[पा० १. सू० १४०-१४१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२७
क्रतुग्रहणं किमिति । अत्र ऋतुशब्दस्य ससोमके यागे रूढत्वाइंर्शपौर्णमासयोश्चानाम्नातसोमपानत्वाद्यजुर्वेदोपदिष्टत्वेऽपि ऋतुशब्देनानभिधानान्नैकवद्भाव इत्यर्थः । यत्र त्वसोमपानेऽपि ऋतुशब्दः श्रूयते दर्शपौर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विज इति स प्रशंसार्थ औपचारिक इत्यदोषः । दर्शपौर्णमासाविति दृश्यतेऽनेन व्यञ्जनाद् घत्रि दर्शोऽमावस्या उपचारादर्शभवो यागोऽपि दर्शः। पूर्णो माश्चन्द्रोऽस्यां पूर्णमासोऽरण 5 डी:, पौर्णमास्यां यागः 'भर्तु संध्यादेरण' [ ६. ३. ८६.] ।। ३. १. १३६ ।।
निकटपाठस्य ॥ ३. १. १४० ॥
निकटः पाठो येषामध्येतृ णां ते निकटपाठः, तद्वाचिनां द्वन्द्व एक-एकार्थो भवति स्वैः । पदमधीते पदकः, एवं क्रमकः, पदकश्च क्रमकश्च पदकक्रमकम्,पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम्, एवं क्रममधीते क्रमकः, वृत्तिमधीते10 वार्तिकः, क्रमकश्च वार्तिकश्च क्रमकवार्तिकम्, चर्चा पारयतीति चर्चापारः, स च खण्डिकश्च चर्चापारखण्डिकम् निकटेति किम् ? याज्ञिकवैयाकरणौ । पाठेति किम् ? पितापुत्रौ ।। १४० ।।
न्या० स०--निकट। इह पाठशब्दो भावे कर्मणि वा। भावपक्षे पाठशब्देन पाठक्रियोच्यते तेन पाठक्रियया निकटव्यपदेशानामित्यर्थो जायते । निकटत्वं च कालरूपं1 प्रसिद्धमेव । यथा सूत्राध्ययनसमाप्तिसमनन्तरमेव धातवः पठ्यन्ते । तथैव पदान्यधीत्य क्रमोऽधीयते इत्यों भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्थो द्रव्यात्मा उच्यते । स च ग्रन्थ एकोऽपि पदक्रमसंहिताभेदकल्पनया भिन्नस्ततश्च पठयमानैकग्रन्थनिमित्तं कालरूपतो नैकटयं संभवति । तेन पाठयोरिति पाठक्रिययोः । पठ्यमानग्रन्थयोर्वेत्यर्थः, वृत्तिमधीते न्यायादित्वादिकणि-वात्तिकः यज्ञमधीते 'याज्ञिकौक्थिक' [६. २. १२२.] 20 इति निपातः । याज्ञिकः अत्र पाठक्रिये पठितव्यौ च ग्रन्थौ अत्यन्तं संनिकृष्टौ इति तन्निमित्तौ शब्दावपीति । पितापुत्राविति अत्र निकटा जननक्रिया न तु पाठ इति ।। ३. १. १४० ।।
नित्यवैरस्य ॥ ३. १. १४१ ॥
नित्यमनिमित्तं जातिनिबद्धं वैरं येषां तद्वाचिनां शब्दानां स्वैद्वंद्व एक एकार्थो भवति । अहिनकुलम्, मार्जारमूषिकम्, ब्राह्मणश्रमणम्, श्वावराहम्-25 'शुनः' [ ३. २. ६०. ] इति दीर्घत्वम्, श्वचण्डालम्, पशुविकल्पः पक्षिविकल्पश्च परत्वादनेन बाध्यते-अश्वमहिषम्, काकोलूकम् । नित्यवैरस्येति किम् ? कौरवपाण्डवाः, कौरवपाण्डवम्, देवासुराः, देवासुरम्:,-नैषां