________________
बृहद्वृत्ति-लघुन्याससंवलिते
५२८ ]
[ पा० १. सू० १४२. ]
निर्निमित्तं वैरमपि तु राज्यापहारादिकृतम् । अन्ये तु वैर एवाभिधेये समाहारमिच्छन्ति - श्वावराहम्, मार्जारमूषिकम् वैरमिति, वैरिषु तु यथाप्राप्तम्, दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोर्विद्यते लोक प्रौत्पत्तिको विरोधो यथा मार्जारमूषिकयोः ।। १४१ ।।
न्या० स०-- नित्यवैरस्य । ' गवाश्वादि:' [ ३. १. १४४ ] इत्यत्र नित्यवैरा- 5 भावपक्षे श्वचंडालमित्युक्त तच्च परमते ज्ञातव्यम् केचिदभ्यधुर्नानयोर्नित्यं वैरं किंतु कृतकं वैरम् । तथाहि - चण्डालः श्वानं हन्ति प्रथमं ततः श्वा पृष्ठतो घावति इति कृतकं वैरम् । नित्यमनिमित्तमिति जातेरन्यदर्थादि निमित्तं न विद्यत इत्यर्थः । पशुविकल्प इति पशुद्व द्वविकल्पो महाजोरभ्रमित्यादौ सावकाशोऽयं तु नित्यविधिर्ब्राह्मणश्रमण• मित्यादी अश्वमहिषं काकोलूकमित्य तूभयप्राप्तौ परत्वादयमेव विधिरित्यर्थः । कौरव - 10 पाण्डवा इति कुरुशब्दादिदमर्थे 'उत्सादेरञ्' [ ६. १. १६. ] पाण्डुशब्दादपत्ये 'शिवादेरण्' [ ६. १. ६०. ] । वैर एवेति तच्चोपचारात् श्वावराहादिकृतं वैरमपि श्वावराहम् । श्वावराहं वरमिति श्वा वराहश्चेत्युपचाराद् वैरे वर्त्तते । श्रौत्पत्तिक इत्यत्र उत्पत्तौ भवः 'अध्यात्मादिभ्य इकण्' [ ६. ३. ७८. ] जन्मप्रभव इत्यर्थः ।। ३. १. १४१ ।।
नदीदेशपुरां विलिङ्गानाम् ॥ ३. १. १४२ ॥
विविधं लिङ्ग येषां तेषां नदीदेशपुराभिधायिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थो भवति । नदी उद्ध्यश्च इरावती च उध्येरावति, गङ्गा च शोणश्च गङ्गाशोणम्, विपाट् च स्त्री चक्रभिच्च नपुंसकम् विपाट्चक्रभिदम् । देशकुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्, कुरुकुरुजाङ्गलम्, वरेन्द्रीमगधम्, पुरम् - मथुरापाटलिपुत्रम्, काञ्चोकन्यकुब्जम् । पुरां देशत्वात्तद्ग्रहणेनैव सिद्धे पूर्ग्रहणं 20 ग्रामनिषेधार्थम्-जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ । स्वैरित्येव ? शौर्यं च नगरं केतवता च ग्रामः शौर्यकेतवते, पूर्ग्रामसंभेदेऽपीच्छत्यन्यःशौर्यकेतवतम्, पूर्देशसंभेदेऽपीत्यपरे - श्रावस्ती मध्यदेशम्, मगधश्रावस्ति । नदीदेशपुरामिति किम् ? कुक्कुटमयूर्यौ । देशग्रहणेन चेह जनपदानां ग्रहणम् पृथग्नदीपूर्ग्रहणात् - तेनेह न भवति - गौरी च कैलासश्च गौरीकैलासौ पर्वतौ, 25 कैलासश्च गन्धमादनं च कैलासगन्धमादने पर्वतौ । विलिङ्गानामिति किम् ? गङ्गायमुने, मद्रकेकयाः मथुरातक्षशिले ।। १४२ ।।
15