________________
[पा० १. सू० १४३-१४४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२६
__ न्या० स० नदीदेश। उध्येरावतीति उज्झत्युदकं 'कुप्यभिद्य' [ ५. १. ३६. ] इति, ह्रदस्याऽपि नदीत्वं स्तोकविशेषात् यद्वा नदनद्योरभेदोपचारोऽत्र, यतो नदीविशेषो नदः, इरा विद्यतेऽस्यामिति, 'नद्यां मतुः' [ ६.२. ७२. ] विपाट् च स्त्रीति विशिष्टं पाशितवती क्विपि पृषोदरादित्वाद् विपाडिति न्यासः। तेन यत्र विप्राडिति दृश्यते तन्न साधु । कुरुकुरुक्षेत्रमिति कुरोरपत्यानि 'दुनादि' [६.१.११८.] इति ञ्यस्य 'बहुष्वस्त्रियाम्' 5 [६.१.१२४.] इति लुपि कुरवस्ततश्च कुरूणां क्षेत्रम् । एवं कुरुजाङ्गलमिति । काञ्चीकन्यकुब्जमिति कन्या कुब्जा यत्र बाहुलकात् ह्रस्वत्वम् । पुरां देशत्वादिति पुरामप्युपभोगस्थानत्वस्य देशलक्षणस्य विद्यमानत्वात् किमर्थं पूर्ग्रहणम् ? उपलक्षणं चेदं नदीग्रहणमपि ग्रामनिषेधार्थमेव । जाम्बवशालकिन्याविति जम्बूनामदूरभवो 'निवासादूरभवे' [६. ३. ६६.] इत्यण । शालूकान्युत्पलादिमूलान्यत्र सन्ति । शौयं चेति शूराणां निवासः 'सुपन्थ्या-10 देर्व्यः' [६. २. ८४.] 'श्रांक पाके' इति श्रान्तीति श्रास्तेषां वस्तिरिव संकीर्णत्वात् श्रावस्ती 'इतोऽक्त्यर्थात्' [२. ४. ३२.] डी नगरी। गौरीकलासाविति गौरी नाम पर्वतः, कं जलं इला भूमिस्तयोरास्ते अच् । के जले लासो लसनमस्येति वा केलासः स्फटिकस्तस्यायम् ॥ ३. १. १४२ ।। पाव्यशूद्रस्य ॥३. १. १४३ ॥
15 यैक्ति पात्रं, संस्कारेण शुध्यति ते पात्रमहन्तीति पात्र्याः, पात्र्यशूद्रवाचिनां शब्दानां, द्वंद्व एक एकार्थो भवति स्वैः। तक्षायस्कारम्, रजकतन्तुवायम्, कुलालवरुटम्, किष्किन्धगन्धिकम्, शकयवनम् । पात्र्येति किम् ? जनंगमबुक्कसाः। शूद्रग्रहणं किम् ? ब्राह्मणक्षत्रियविशः ।। १४३ ।।
20 न्या० स०--पाच्यशू०। भुक्त पात्रमिति पात्रं कांस्यादि, संस्कारेण भस्मोद्वतनादिना 'शुद्ध्यति भस्मना कांस्यं, ताम्रमम्लेन शुद्ध्यति ।' इत्यादिमन्वादिशास्त्रोक्तन लोकप्रसिद्धेनैव । शुद्ध्यति विशिष्टलोकानामुपभोग्यं भवति । तक्षायस्कारमिति पात्र्यशूद्रा द्विप्रकाराः आर्यावर्तान्तर्गतास्तद् बाह्याश्च । अत्राऽपि आर्यावर्त्तजानां तैः स्वत्वं, तबाह्यानां बाह्य रिति द्रष्टव्यम्, उभयेऽपि क्रमेण तक्षायस्कारमित्यादिना25 दर्श्यन्ते । किं किं दधातीति वर्चस्कादित्वात् किष्किन्धः। किष्किन्धादयश्चत्वार आर्यावर्ताइ बाह्या म्लेच्छभेदाः। जनंगमबुक्कसा इति न ह्य तेभ्यस्त्रैवर्णिकाः स्वं पात्रं प्रयच्छन्ति । तैर्भुक्त पात्रस्य संस्कारेणाशुद्धेरिति ॥ ३. १. १४३ ॥
गवाश्वादिः ॥ ३. १. १४४ ॥ गवाश्वादिद्वन्द्व एक एकार्थो भवति । गौश्चाश्वश्च गवाश्वम्,30