________________
५३० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १४४.]
गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवामनम्, कुब्जकैरातम्, ' कुब्जकैरातकम्, पुत्रपौत्रम् । नित्यवैराभावपक्षे-श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपच्छिकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनपुरुषम्, तृणोलपम्, कुडीकुडम्, दासीदासम्, भागवतीभागवतम्-त्रिष्वेतेषु 'पुरुषः स्त्रिया' 5 [३. १. १२६.] इत्येकशेषो न भवति निपातनात् । गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः गोऽश्वौ, गोऽश्वम्, गोअश्वौ, गोअश्वम्, गोऽविकौ, गोऽविकम्, गवेलकौ, गवेलकम्, पशुविभाव भवति ।। १४४ ।।
न्या० स०-गवा० । गवाश्वादिष्वजडकं यावत् 'पशुव्यञ्जनानाम्' [३.१.१३२.] 10 इति विकल्पे नित्यार्थः पाठः। सर्वेषु च 'स्वरे वाऽनक्षे' [ १. २. २६.] इत्यवादेशः । कुब्जवामनम्-इत्यादिषु चतुर्षु न्यायसिद्धे समाहारेतरेतरयोगे नित्यार्थः । श्वचण्डालमिति नित्यवैरे 'नित्यवरस्य' [ ३. १. १४१. ] इत्येव सिद्धमित्याह-नित्यवैराभावपक्षे इति । ये चाण्डालपाटके श्वानो वसन्ति तेऽत्र विवक्षिताः। न च तेषां चण्डालैः सह वैरमस्ति । यद्वा चण्डाला: श्वानं घ्नन्ति अतोऽसौ धावति इति नित्यवैराभावः । पद्यते: 'तुदिमदि'15 १२४ (उणादि) इति छकि गौरादित्वात् ङयां स्वाथिके के च पच्छिका छाजिकेति प्रसिद्धिः। शाटीपच्छिकमिति उपाध्यायस्त्वाह सततमनिमित्तवैरिणां कथमिव द्वंद्वो वैरं नाभिदध्यात् । न विवक्षितमिति चेत् वस्तुस्थितस्य कोदृश्यविवक्षा। तस्यामहिनकुलावित्यादयोऽप्रयोगा एव स्युः । उत्पलोद्योतकरादयो व्यावक्षते श्वचण्डालमित्यस्य पाठः शुनां चण्डालानां च नित्यवैरित्वाभावात् । न हि यथा श्वपचाः श्वानश्च नित्यवैरिणस्तथा20 श्वानश्च चण्डालाश्च । अत्र जातित्वात् 'अप्राणि' [३. १. १३६.] इति सिद्धावपि व्यक्तिपरनोदनायामपि यथा स्यादित्यस्य पाठः ।।
उष्ट्रखरमिति पशुत्वाद् विकल्पे प्राप्ते। उष्ट्रशशमित्यत्र वितरेतरयोगे प्राप्ते । पशुविकल्पश्च नास्ति शशस्याग्राम्यत्वात् । मूत्रशकृदिति धर्मार्थादित्वात् शकृन्मूत्रमपि, मूत्रशकृदित्यादौ व्यक्तिपरनोदनायाम् 'अप्राणि' [ ३. १. १३६. ] इति न सिध्यतीत्यु-25 पादानम् । दर्भशरमिति दर्भादीनां तणजातित्वादप्राणीति नित्यविधेः पश्वादित्वात्तणविकल्पे बाधके प्राप्तेऽयं विधिः । अर्जुनपुरुषमिति पुरुषशब्दोऽत्र तृणविशेषवाची, परुष इत्यपि दृश्यते तच्चिन्त्यम् । कुडी 'कुडत् बाल्ये च' 'नाम्युपान्त्य' [५. १. ५४.] इति के 'वयस्यनन्त्ये' [२. ४. २१. ] इति ङयां कुडी बाला, कुडो बालः। कुटीकुटमिति उद्योतकरेण टो निरीक्षणीयः । गवेलकमिति 'स्वरे वानक्षे' [ १. २. २६. ] इत्यवा-30 देशेऽपि लत्वस्य विकृतत्वात्त्वसंहृतिः ॥ ३. १. १४४ ।।