________________
[पा० १. सू० १४५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५३१
न दधिपयादिः ॥ ३. १. १४५ ॥
दधिपयःप्रभृतिद्वन्द्व एक एकार्थो न भवति । दधि च पयश्च दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, हरिवासवौ, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिजाकौशिकौ, प्रवापसदौ, आद्यवसाने, सूर्याचन्द्रमसौ, मित्रावरुणौ, अग्नीषोमौ, सोमारुद्रौ, नारदपर्वतौ, खण्डामकौं, नरनारायणौ, 5 रामलक्ष्मणौ, भीमार्जुनौ, कम्बलाश्वतरौ, मातापितरौ, पितापुत्रौ, श्रद्धामेधे, शुक्लकृष्णे, इध्माबहिषी,-पूर्वस्य दीर्घत्वं निपातनात्, ऋक्सामे, वाङ्मनसे,अत्र 'ऋक्सामय॑जुष' [७. ३. ६७.] इत्यादिनाकारान्तत्वम्, याज्यानुवाक्ये, दीक्षातपसी, श्रद्धातपसी, श्रुततपसी, मेधातपसी, अध्ययनतपसी, उलूखलमुशले-अत्रायेषु त्रिषु व्यञ्जनविकल्पे शुक्लकृष्णे इत्यत्र 'विरोधिनाम-10 द्रव्याणाम्' [३. १. १३०.] इति विकल्पे, इध्माबहिषी, उलूखलमुशले इत्यत्र 'अप्राणिपश्वादेः' [३. १. १३६.] इति नित्यमेकत्वे, शेषेषु च 'चार्थे द्वन्द्वः सहोक्तौ' [३. १. ११७.] इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् । चण्डालमृतपादयश्चात्र द्रष्टव्याः ।। १४५ ॥
न्या० स०-न दधि०। मधुसर्पिषीति धर्मार्थादित्वात् पर्यायेण पूर्वनिपातः 115 ब्रह्मणो व्यतिरिक्तश्चतुर्दशभेदभिन्नः । प्रजापतिः, स्कन्दविशाखाविति अत्र स्कन्दस्य मित्रमपि स्कन्दः । यद्वा स्कन्दशब्देन विनायक उच्यते। परिजाकौशिकाविति परिजा नदी कौशिकश्च पव॑तः । कुशोऽस्यास्ति कुशिकस्यापत्यं बिदाद्यत्रि। अत्र नदीदेशेति स्वैरिति व्यावृत्त्या नित्यसमाहारो निवार्यते, न्यायेन वैकल्पिकस्तु प्राप्त एव स चानेन निषिध्यते । खण्डश्च मर्कश्च खण्डामको देवताविशेषौ। 'वेदसह [३. २.४१. ] इत्यात्वम्, तो हि20 पूर्व दैत्यौ सन्तौ राक्षसौ प्रशस्त्रवध्यौ। ततस्तद्वाधार्थ याग प्रारब्धः। खण्डामर्काभ्यां यजेत अनया आहुत्या अशस्त्रौ देवमध्यस्थितौ यज्ञहुतस्य ग्रहणाय आगतौ ततो देवी जाताविति । नरनारायणाविति नरशब्दानडाद्यायनणि नारायणः । नृणाते हुलकात् कर्मणि घञि नारा: आपः ता अयनं यस्येति वा नारायणः, यन्मनु:
आपो नारा इति प्रोक्ता, आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं, तेन नारायणः स्मृतः ।। १ ।। अय॑त्वान्नारायणस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वान्नरस्य पूर्वनिपातः । भीमार्जुनाविति 'धर्मार्थादिषु द्वंद्वे' [ ३. १. १५६. ] इति भीमस्य पूर्वनिपातः। मातापितराविति मातुरय॑त्वात् पूर्वनिपातः। यदाह--
25