________________
[पा० १. सू० १३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५१६
द्वयर्थः सन्ने क-एकार्थो भवति । उदितौ पुष्यपुनर्वसू, अर्थग्रहणं पर्यायार्थम्तिष्यपुनर्वसू, सिध्यपुनर्वसू, समाहारे तु पुष्यपुनर्वसु । पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्यमघा: भ इति किम् ? पुष्यपुनर्वसवो माणवकाः । सहोक्तावित्येव । पुष्यः पुनर्वसू येषां ते पुष्यपुनर्वसवो मुग्धाः ।। १२६ ।।
5 न्या० स०-पुष्यार्था०। एकशेषो निवृत्त इति भिन्नसूत्रकरणात् इत्यर्थः । अन्यथा क्लीबमन्येनैकं च वा पुष्यार्थाढ़े पुनर्वसुश्च नित्यमित्येकमेव योगं कुर्यात् । मे नक्षत्रे वर्तमानादिति एकस्याप्यावृत्त्या उभयस्यापि विशेषणत्वम् । समाहारे त्विति समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति । पुष्यपुनर्वसवो मारणवका इति । पुष्येण चन्द्रयुक्त न युक्तः काल: 'चन्द्रयुक्तात् काले' [६. २. ६.] इत्यण् एवं पुनर्वसुशब्दादपि,10 ततो 'लुप्त्वप्रयुक्त' ( ) इति लुप्, एवं कालवृत्तिभ्यां पुष्ये जातः पुनर्वस्वोर्जाताविति ‘भर्तु संध्यादेः' [६. ३. ८६.] इत्यण् 'बहुलानुराधा' [६. ३. १०७.] इति तस्य लोपः । ततः पुष्यश्च पुनर्वसू चेति द्वंद्वः । पुष्यपुनर्वसवो मुग्धा इति । मुग्धा इति मुह्यन्ति जना एष्विति 'अद्यर्थाच्चाधारे' [ ५. १. १२. ] इति क्त साध्यः । ततो येषां पुष्यपुनर्वस्वादीनां मुग्धानां कोऽर्थः ? मोहोत्पादकानां मध्ये पुष्यः पुनर्वसू ज्ञायते लोकैस्ते 15 पुष्यपुनर्वसवः मुग्धा इति । कर्तरि क्त तु विपर्यासप्रतिपत्तारः पुरुषाः उच्यन्ते । ततः पुनर्वस्वर्थस्यैकत्वेऽपि अन्यपदार्थतया पुरुषबहुत्वे सति बहुवचनमुपपद्यत एव । अत्रावयवेन विग्रहः समदायः समासार्थः । ततः पूष्य इत्येकोऽवयवः पुनर्वसू इति द्वितीयः । येषामिति समुदायः समासार्थः ।। ३. १. १२६ ।।
विरोधिनामद्रव्याणां नवा द्वन्द्वः रवै ॥३. १. १३० ॥20
द्रव्यं गुणाद्याश्रयः,। विरोधिवाचिनां शब्दानां द्रव्यमप्रतिपादयतां द्वद्वो वा एक-एकार्थो भवति, स चेत् द्वद्वः स्वैः सजातीयैरेवारभ्यते । सुखदुःखम्, सुखदुःखे, शीतोष्णम्, शीतोष्णे, जननमरणम्, जननमरणे, लाभालाभम्, लाभालाभौ, संयोगविभागम्, संयोगविभागौ विरोधिनामिति किम् ? रूपरसगन्धस्पर्शाः, कामक्रोधौ, अद्रव्याणामिति किम् ? सुखदुःखाविमौ25 ग्रामौ, शीतोष्णे उदके। स्वैरिति किम् ? बुद्धिसुखदुःखानि । समाहारे चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वाद्विकल्पे सिद्धे सर्वमिदं ' विकल्पानुक्रमणं नियमार्थम्-विरोधिनामेवाद्रव्याणामेव स्वैरेवेति, तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ।। १३० ।।