________________
५१८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १२८-१२६.]
क्लीबमन्येनैकं च वा ॥ ३. १. १२८ ॥
क्लीब-नपुंसक नाम अन्येनाक्लीबेन सहोक्तावेक शिष्यते, तन्मात्रभेदे क्लीबाक्लीबमात्र एव चेद्भदो भवति, तच्च शिष्यमाणमेकमेकार्थं वा भवति, अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः । शुक्लं च वस्त्रम् शुक्लश्च कम्बलः तदिदं शुक्लम्, ते इमे शुक्ले वा। शुक्लं च वस्त्रं, शुक्ला च शाटी 5 तदिदं शुक्लं ते इमे शुक्ले वा, शुक्लं च वस्त्रं शुक्लश्च कम्बलः शुक्ला च शाटी तदिदं शुक्लं तानीमानि शुक्लानि वा। क्लीबग्रहणं किम् ? स्त्रीपुंसयोरपि शेषः स्यात् । अन्येनेति किम् ? शुक्लं च शुक्लं च शुक्ले, शुक्लं च शुक्लं च शुक्लं च इमानि शुक्लानि,-'स्यादावसंख्येयः'[३. १. ११६.] इत्येक शेषः, अनेन त्वेकशेषे विकल्पेनैकार्थत्वं प्रसज्ज्येत । तन्मात्रभेद इत्येव ? 10 महद्धिमं हिमानी, हिमं च हिमानी च हिमहिमान्यौ, महदरण्यमरण्यानी, अरण्यं च अरण्यानी च अरण्यारण्यान्यौ, अक्षाश्च देवनादयः अक्षारिण चेन्द्रियाणि अक्षाक्षाणि, पद्मश्च नागः पद्मा च लक्ष्मीः पद्म च जलजं पद्मपद्मापद्मानि, एषु प्रवृत्तिनिमित्तलक्षणार्थभेदोऽप्यस्तीति नैकशेषः ।। १२८ ।।
न्या० स०-क्लोबम० । ननु समाहारेतरेतरविवक्षायामेकत्वविकल्पो भविष्यति किमेकग्रहणेन ? सत्यं, इदमेकग्रहणं ज्ञापयति, यत् अन्यत्रैकशेषे समाहारविवक्षायामपि एकत्वं न भवति, क्लीबापेक्षया अन्यत्वमित्याह-अन्येनाक्लीबेनेति । प्रान्तेनैवैकशेषेणैकप्रयोगस्य सिद्धत्वादेकं प्रयुज्यमानं क्लीबं विज्ञायते । तस्यैकत्वं चार्थद्वारकमेव वाग्रहणं चैकत्वेनैव संबध्यते न त्वेकशेषेणेत्याह-तच्चेत्यादि । शुक्लानीत्यत्र च क्लीबाक्लीबार्थ-20 योर्भेदात् 'समानाम्' [३. १. ११८.] इत्येकशेषाभावः । स्त्रीपुंसयोरपीति क्लीबग्रहणमन्तरेण यथा क्लोबस्याक्लीबेन सहोक्तावेकशेषस्तथा स्त्रीपुसयोरपि स्त्रीपुसाभ्यां सह वचने स्यादित्यर्थः। महदित्यादि ननु च एतेषु प्रकृतेरेकत्वात् स्त्रीत्वादिलिङ्गविशिष्टस्यैकस्यैवार्थस्याभिधानात् को भेदः ? इत्याशङ क्याह-एग्वित्वादि ।। ३. १. १२८ ।।
25
पुष्यार्थाद्धे पुनर्वसुः ॥ ३. १. १२६ ॥
एकशेषो निवृत्तः, एकमित्यनुवर्तते, पुष्यार्थाच्छब्दाढ़े नक्षत्त्रे वर्तमानात्परो भे एव वर्तमानः पुनर्वसुशब्दः सहोक्तौ गम्यमानायां सामर्थ्यात्