________________
[पा० १. सू० १२७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५१७
एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमर्थो विशेषणम् । अन्यत्र तु ब्राह्मण्या वत्सो ब्राह्मणीवत्स इति स्त्र्यर्थ इत्यर्थोऽप्यन्य इति तन्मात्रभेदाभावादेकशेषाभावः । यदुपाध्यायः स्त्रीपू सयोः सहोक्तावेकशेषः सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपूसकृतो विशेषस्तत्रैकशेषः, इह त्वप्रधानस्त्रीपूसकृतोऽपि विशेष इत्येकशेषाभावः । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यपि कृतेऽवान्तरस्त्रीलिङ्गभेदान्नैकशेषः ब्राह्मणवत्सा चेति तु 5 कृते भवत्येव ।। ३. १. १२६ ।।
ग्राम्याशिशुदिवशफसंघे स्त्री प्रायः ॥ ३. १. १२७ ॥
ग्राम्या अशिशवो ये द्विशफा-द्विखुरा अर्थात्पशवः तेषां संघे स्त्रीपुरुषाणां सहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेद्भवति । पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषार्थं वचनम् । गावश्च स्त्रियः गावश्च पुरुषाः इमा10 गावः, अजाश्चेमे अजाश्चेमा इमा अजाः, एवं मेष्य इमाः, महिष्य इमाः । ग्राम्येति किम् ? प्रारण्यानां मा भूत,-रुरवश्चेमे रुरवश्चेमा इमे रुरवः, पृषताश्च पृषत्यश्च पृषता इमे अशिशुग्रहणं किम् ? वत्साश्चेमा वत्साश्चेमे इमे वत्साः, वर्कर्यश्च वर्कराश्च वर्कराः । द्विशफेति किम् ? अश्वाश्चेमे अश्वाश्चेमाः इमेऽश्वाः, गर्दभाश्च गर्दभ्यश्च गर्दभाः, मनुष्यश्चेमा मनुष्याश्चेमे इमे मनुष्याः, पक्षिण्यश्च15 पक्षिणश्च पक्षिणः । संघग्रहणं किम् ? गौश्चायं गौश्चेयम् इमौ गावौ, एवमेतावजौ, प्राय इति किम् ? उष्ट्रयश्च उष्ट्राश्च उष्ट्राः, छाग्यश्च छागाश्च छागाः, व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति । तन्मात्रभेद इत्येव ? गोवलीवर्दम्, अजाविकम् ।। १२७ ।।
न्या० स०--ग्राम्याशिशु०। महिष्य इमा इति । ननु गावोऽजाश्च शिशवो20 भवन्ति तत्कथमत्राशिशव इत्युच्यमानः स्त्रीशेषः ? नैष दोषः । यद्यपि गावोऽजाश्च शिशवो भवन्ति । तत्राशिशूत्वकृतोऽयं विधिर्न तू शिशूत्वनिबन्धनः प्रतिषेधः । इमेऽश्वा इत्यादि एष्वश्वादीनां खुरसंबन्धेऽपि वृत्तैकखुरत्वात् मनुष्यादीनां खुररहितत्वात् द्वितुरत्वाभावात् सर्वत्र पुरुषशेष एव । इमौ गावाविति ननु समुदायस्य संघरूपत्वात्तस्य च द्वयोरपि संभवात् कथं संघ इति वचनात् द्वयोरपि न भवति? सत्यं, द्वितीयेन विना25 सहोक्त रभावात् सहोक्तिग्रहणादेव द्वयोः संघे सिद्ध संघग्रहणं संघप्रकर्षार्थम् । उष्ट्रा इति केचिदत्रोष्ट्रा न ग्राम्या इत्याहुः । तथापि छागा इत्येतदर्थं प्राय इति वक्तव्यम् । ! अजाविकमिति अत्र अविकशब्द उणादौ व्युत्पन्नः । गोबलोवईमित्यत्र 'पशुव्यञ्जनानान्' [ ३. १. १३२.] इति, अजाविकमित्यत्र तु 'गवाश्वादिः' [ ३. १. १४४. ] इति चैकत्वम् ।। ३. १. १२७ ।।
30