________________
५१६ ] ..
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १२६.]
पट्वी च पटू, गौश्चायं गौश्चेयम् इमौ गावौ । पुरुष इति किम् ? तोरं नदनदीपतेः, घटघटीशरावोदञ्चनानि । तन्मात्रभेदे इत्येव ? हंसश्च वरटा च हंसवरटे, अश्ववडवौ, पुरुषयोषितौ, द्रुणीकच्छपौ, ऋश्यश्च रोहिच्च ऋश्यरोहितौ, क्षेमधृतयश्च क्षत्रियास्तनुकेश्यश्च तत्स्त्रियः क्षेमधृतितनुकेश्यः, अङ्गारकाश्च शकुनयः कालिकाश्च तस्त्रियः कालिकाङ्गारकाः-एषु प्रकृति- 5 भेदः । गणकगणक्यौ, इन्द्र न्द्राण्यौ, भवभवान्यौ, एषु धवयोगलक्षणोऽर्थभेदः, कुक्कुटमयूयौं, अजावर्करौ, अश्वाकिशोरी, कलभहस्तिन्यौ, गोवत्सौ-एषु प्रकृत्यर्थयोर्भेदः । कथं ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च ब्राह्मणवत्साब्राह्मणीवत्सौ-न ह्यत्र स्त्रीपुरुषमात्रभेदादन्यो भेदोऽस्ति ? सत्यम्-तदित्यनेन प्रधानस्त्रीपुरुषौ परामृश्येते तेन प्रधानस्त्रीपुरुषमात्रकृत एव भेदे भवति, अत्र तु10 विशेषणीभूताप्रधानस्त्रीपुरुषकृतोऽपि भेदोऽस्तीति न भवति । अन्ये तु तन्मात्रभेदादधिके प्रकृतिभेदे एवैकशेषं नेच्छन्ति, अर्थभेदे त्विच्छन्त्येव । इन्द्रश्च इन्द्राणी च इन्द्रौ, तथा वरुणाविन्द्रौ भवौ शवौं रुद्रौ मृडाविति, एवं पूर्वसूत्रेऽपि भागवित्तिश्च भागवित्तिकश्च भागवित्तो ।। १२६ ।।
- न्या० स०--पुरुषः स्त्रिया०। अत्र वृद्धो यूनेति नानुवर्तते अघटनात्, तदनुवृत्तौ15 हि वृद्धः पुरुषो यूना युवसंज्ञया स्त्रियेति स्यात्, न चैतदस्ति । अस्त्रीति वचनात् स्त्रिया युवसंज्ञाया अभावात् इति सामान्येनाह-स्त्रीवाचिनेत्यादि। ब्राह्मणाविति ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादौ जातिसामान्यविवक्षायामऽविवक्षितविशेषत्वात् 'समानामर्थेन' [३. १. ११८.] इत्येकशेषः सिद्ध्यति । भेदविवक्षायां तु द्वंद्वः प्राप्नोतीति वचनम् । कारकश्च कारिका चेत्यत्र यद्यपि 'अस्यायत्तत्' [२.४. १११.120 इति प्रति रित्वं भवति । तथापि प्रकृतिरेकैव न त्वन्या। इमौ गावाविति 'स्यादावसंख्येयः' [ ३. १. ११६.] इत्यनेन त्वेकशेषे कदाचिदिमाविति स्यात् । कदाचिदिमे इति अथ स्त्रीपुनपुसकानां सहवचन इति परं भविष्यति ? सत्यं, ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादिसिद्ध्यर्थमवश्यकर्त्तव्येनाऽनेनैव परत्वादिहाऽप्येकशेष इत्यदोषः ।
तीरं नदनदीपतेरिति नन्वत्र 'नदीदेश' [ ३. १. १४२.] इति सूत्रेणैकार्थता25 कथं न भवति । तथा च 'क्लोबे' [ २. ४. ६७. ] इति ह्रस्वत्वे नदनदिपतेरिति स्यात् ? उच्यते, नदीत्युक्त नदीविशेषो गृह्यते, अयं तु सामान्यवाचीति । घटघटीशरावोदञ्चनानोति चतुर्णामपि सहोक्तौ द्वयोरपि सहोक्तिरस्तीति घटघट्योरेकशेष घटशरावोदञ्चनानीति प्राप्तं । एवं पूर्वसूत्रेष्वपि बहूनामपि सहोक्तौ यथाप्राप्तयोः पदयोरेकशेषो भवत्येव । भेदोऽस्तीति न भवतीति तथाहि ब्राह्मणवत्सशब्दो भिद्यते कथमित्युच्यते30