Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 563
________________ ५३० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १४४.] गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवामनम्, कुब्जकैरातम्, ' कुब्जकैरातकम्, पुत्रपौत्रम् । नित्यवैराभावपक्षे-श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपच्छिकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनपुरुषम्, तृणोलपम्, कुडीकुडम्, दासीदासम्, भागवतीभागवतम्-त्रिष्वेतेषु 'पुरुषः स्त्रिया' 5 [३. १. १२६.] इत्येकशेषो न भवति निपातनात् । गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः गोऽश्वौ, गोऽश्वम्, गोअश्वौ, गोअश्वम्, गोऽविकौ, गोऽविकम्, गवेलकौ, गवेलकम्, पशुविभाव भवति ।। १४४ ।। न्या० स०-गवा० । गवाश्वादिष्वजडकं यावत् 'पशुव्यञ्जनानाम्' [३.१.१३२.] 10 इति विकल्पे नित्यार्थः पाठः। सर्वेषु च 'स्वरे वाऽनक्षे' [ १. २. २६.] इत्यवादेशः । कुब्जवामनम्-इत्यादिषु चतुर्षु न्यायसिद्धे समाहारेतरेतरयोगे नित्यार्थः । श्वचण्डालमिति नित्यवैरे 'नित्यवरस्य' [ ३. १. १४१. ] इत्येव सिद्धमित्याह-नित्यवैराभावपक्षे इति । ये चाण्डालपाटके श्वानो वसन्ति तेऽत्र विवक्षिताः। न च तेषां चण्डालैः सह वैरमस्ति । यद्वा चण्डाला: श्वानं घ्नन्ति अतोऽसौ धावति इति नित्यवैराभावः । पद्यते: 'तुदिमदि'15 १२४ (उणादि) इति छकि गौरादित्वात् ङयां स्वाथिके के च पच्छिका छाजिकेति प्रसिद्धिः। शाटीपच्छिकमिति उपाध्यायस्त्वाह सततमनिमित्तवैरिणां कथमिव द्वंद्वो वैरं नाभिदध्यात् । न विवक्षितमिति चेत् वस्तुस्थितस्य कोदृश्यविवक्षा। तस्यामहिनकुलावित्यादयोऽप्रयोगा एव स्युः । उत्पलोद्योतकरादयो व्यावक्षते श्वचण्डालमित्यस्य पाठः शुनां चण्डालानां च नित्यवैरित्वाभावात् । न हि यथा श्वपचाः श्वानश्च नित्यवैरिणस्तथा20 श्वानश्च चण्डालाश्च । अत्र जातित्वात् 'अप्राणि' [३. १. १३६.] इति सिद्धावपि व्यक्तिपरनोदनायामपि यथा स्यादित्यस्य पाठः ।। उष्ट्रखरमिति पशुत्वाद् विकल्पे प्राप्ते। उष्ट्रशशमित्यत्र वितरेतरयोगे प्राप्ते । पशुविकल्पश्च नास्ति शशस्याग्राम्यत्वात् । मूत्रशकृदिति धर्मार्थादित्वात् शकृन्मूत्रमपि, मूत्रशकृदित्यादौ व्यक्तिपरनोदनायाम् 'अप्राणि' [ ३. १. १३६. ] इति न सिध्यतीत्यु-25 पादानम् । दर्भशरमिति दर्भादीनां तणजातित्वादप्राणीति नित्यविधेः पश्वादित्वात्तणविकल्पे बाधके प्राप्तेऽयं विधिः । अर्जुनपुरुषमिति पुरुषशब्दोऽत्र तृणविशेषवाची, परुष इत्यपि दृश्यते तच्चिन्त्यम् । कुडी 'कुडत् बाल्ये च' 'नाम्युपान्त्य' [५. १. ५४.] इति के 'वयस्यनन्त्ये' [२. ४. २१. ] इति ङयां कुडी बाला, कुडो बालः। कुटीकुटमिति उद्योतकरेण टो निरीक्षणीयः । गवेलकमिति 'स्वरे वानक्षे' [ १. २. २६. ] इत्यवा-30 देशेऽपि लत्वस्य विकृतत्वात्त्वसंहृतिः ॥ ३. १. १४४ ।।

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650