Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 543
________________ ५१० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ११६.] निवर्तमानानामर्थमभिदधीतेति ? सत्यं, एवं सति अर्थानुवादत्वाददोषः। प्लक्षन्यग्रो- । धाविति अर्थेन समानामिति वचनाल्लौकिक्या: समानार्थतायाः समाश्रयणादिहैकशेषो न भवति, लौकिकी तु समानार्थता द्वंद्वादन्यत्र विज्ञायते, द्वंद्वपदानां तु परस्परार्थसंक्रमात् समानार्थत्वे विज्ञायमानेऽर्थेन समानामित्यनर्थकं स्यादनुक्तावप्यत्रैकशेषस्य सिद्धत्वादिति । द्वद्वापवादो योग इति इहैकशेषे षट् पक्षा संभवन्ति । तत्र प्रत्येकमेव विभक्तौ परतो 5 विभक्तिपरित्यागेन नामैकशेषि स्यात् (१) अथवा सविभक्तिकानां वृक्षस् वृक्षस् इति स्थिते एकस्य वृक्षस् इत्यस्य शेषः अन्ये निवर्तन्ते (२) अथवा वृक्षश्च वृक्षश्च वृक्षश्च इति द्वंद्वे कृते सत्येकस्य वृक्ष इत्यस्य शेषः अपरे निवर्तन्ते (३) अथवा विभक्तिमनुत्पाद्यैव नाममात्रेण वृक्षवृक्षेत्येवंविधानामेव शेषः कार्यः, ततो विभक्तिः (४) अथवा सहोक्तौ वृक्षश्च वृक्षश्चेति द्वद्व प्राप्ते एकशेषः (५) अथवा नामसमुदायस्यैवार्थवत्त्वान्नामसंज्ञायां10 द्विवचनाद्युत्पत्तौ एकशेषः (६) इति षट् पक्षाः। तत्राद्यं पक्षत्रयं सावद्यकमिति तत्परिहारेणेतरत् पक्षत्रयमिहाश्रीयते । यथा हि तत्र प्रथमे पक्षे नामैकशेषेऽनेकविभक्तिश्रवणं स्यादिति प्रथमपक्षे दोषः । द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तभ्रातृधनन्यायेन शिष्यमाणस्य निवर्त्तमानपदसंख्यासंबन्धेऽपि विभक्त्यन्तत्वाद् द्विवचनबहुवचनानुपपत्तिः स्यात् । ततश्च वृक्ष15 इति नित्यमेव स्यादिति द्वितीयपक्षे दोषः । तृतीये तु समासान्तदोषः, तथाहि ऋक् चेति ऋक् चेति द्वंद्व तत एकशेषे 'चवर्गदषहः' [ ७. ३. ६८.] इति समासान्तः स्यात्, इति प्रथमपक्षत्रयं दुष्ट, इतरत्र तु पक्षत्रये न कश्चिद्दोषः, तथा हि वृक्षं वृक्षं इति स्थितानां नाम्नां विभक्तिमनुत्पाद्यैवैकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोषः, तथा तुल्यकालं नामानि यदा भारोद्यन्तृन्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा द्वव कशेषौ इष्टाविति20 द्विवचन बहुवचनं चोपपन्नमिति द्वितीयेऽपि न दोषः । तृतीयपक्षेऽपि न कश्चिद्दोषः । नामसमुदायस्यैवार्थवत्त्वान्नामत्वाद् विभक्त्युत्पत्तेरिति सोऽपीहाश्रीयते इति पक्षत्रयेऽपि द्वंद्वः प्राप्तोऽनेनापोद्यते इत्याह द्वद्वापवादो योग इति ॥ ३. १. ११८ ।। स्यादावसंख्येयः ॥ ३. १. ११६ ॥ सरूपार्थं वचनम् सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोक्तौ25 गम्यमानायामेकः शिष्यते, असंख्येयः संख्येयवाचि शब्दरूपं वर्जयित्वा । अक्षश्च शकटाक्षः अक्षश्च देवनाक्षः अक्षश्च विभीतकाक्षः अक्षाः, एवं पादाः, माषाः, श्येनी च श्येनी च श्येन्यौ, एवं हरिण्यौ, रौहिण्यौ, वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः । स्यादाविति किम् ? माता च जननी माता च धान्यस्य मातृमातारौ, याता च देवरजाया याता च गन्ता30 यातृयातारौ, अत्र ह्य कत्र मातरौ यातरावित्यन्यत्र मातारौ यातारौ इति

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650