Book Title: Shrutdeep Part 01
Author(s): 
Publisher: Shubhabhilasha Trust

View full book text
Previous | Next

Page 38
________________ ३१ श्रुतदीप-१ पृथगभिहिताः१। प्रमाणादभिन्नमर्थाधिगम एव फलम्, तच्च प्रमाणादभिन्नम् | अविसंवादि विज्ञानं प्रमाणमिति लक्षणं प्रमाणस्य३। परस्परविनिर्लुठितक्षणक्षयिलक्षणानि निरंशस्वलक्षणानि, प्रमाणगोचरः तात्त्विकः । चक्षुः श्रोत्रेऽप्राप्यकारिणी, इतराणि प्राप्यकारीणि। स्मरणं प्रमाणम्, तर्कप्रत्यभिज्ञाया(ज्ञयोः) अप्रामाण्यम्। नयः पर्यायास्तिको वस्तुनि परासत्त्वनिषेधः वासनास्वरूपं कर्म इति बौद्धमतम्॥१॥ नैयायिक(का) योगाक्षपादापराभिधास्तेषां प्रमाणादीनि षोडश तत्त्वानि । अर्थोपलब्धिहेतुः प्रमाणम् । तच्चतुर्धा प्रत्यक्षानुमानोपमानशाब्दभेदात् । एकात्मसमवायि ज्ञानान्तरवेद्यं ज्ञानम्। सृष्ट्यादिकृद्देवः शिवः ५ | प्रमाणाद्भिन्नं फलम् । प्राप्यकारीण्येवेन्द्रियाणि। तमश्छायेऽद्रव्ये । स्मृतेरप्रामाण्यम्। स्वतन्त्रौ सामान्यविशेषौ । प्रमाणगोचर आकाशगुणः शब्दोऽपौद्गलिकः, सङ्केतवशादेव शब्दार्थप्रतीतिः । धर्मधर्मिणोर्भेदः सामान्यतैकवृत्ति आत्मविशेषगुणलक्षणं कर्म इति योगमतम्॥२॥ साङ्ख्याः पारमर्षकापिलापरसञ्ज्ञास्तेषां पञ्चविंशतिः तत्त्वानि। प्रत्यक्षा(कृत्या?)दीनि प्रत्यक्षानुमानशाब्दानि प्रमाणानि । अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः। अकर्ता निर्गुणः सूक्ष्म आत्मा कपिलदर्शने ॥ चिच्छक्तिर्विषयपरिच्छेदशून्या, बुद्धिश्च जडा, यत इन्द्रियद्वारेण सुखदुःखादयो विषया बुद्धौ सङ्क्रामन्ति। बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुःख्यहमित्युपचारः । प्रकृतेर्वियोगान्मोक्षः। प्राप्यकारिणीन्द्रियाणि । नयो द्रव्यास्तिकः अविर्भावतिरोभावमात्रता वस्तुनः, उत्पादविनाशौ न स्तः । प्रत्यक्षानुमानशाब्दसञ्ज्ञं १. बौद्धानां स्वभावानुपलब्धेः स्वभावहेतावन्तर्भाव इति तस्यास्तादात्म्यमेव सम्बन्धः कारणव्यापकानुपलब्ध्योरपि तादात्म्यतदुत्पत्तिप्रतिबन्धाद्व्याप्यकार्यनिवर्तकत्वमिति। अयमेव हि यो ह्येष भावे भवति निश्चयः । नैष वस्त्वन्तराभावे संवित्त्यनुगमादृते॥ २. अज्ञाननिवृत्तिः प्रमाणवदभिन्नमेव तत्फलम्। ३. बौद्धानां हि मते भ्रान्तमनुमानं सामान्यप्रतिभासित्वात् तस्य च भ्रान्तत्वात् । प्रामाण्यं पुनरनुमानस्य प्रणालिकया। तथा हि नाथं (र्थं) विना तादात्म्यतदुत्पत्तिरूपसम्बन्धप्रतिबद्धलिङ्गस्य भावो, न तद्विना तद्विषयं ज्ञानं न तज्ज्ञानमन्तरेण प्रागवधारितसम्बन्धस्मरणम्, [न] तदस्मरणेनानुमानमित्यर्थाद् व्यभिचारित्वाद् भ्रान्तमपि प्रमाणं सङ्गीर्यते। तथा च धर्मकीर्तिविनिश्चये मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतः । मिथ्याऽज्ञानाभिवेशेऽपि विशेषार्थक्रियां प्रति ।। यथातथाऽयथार्थेष्वप्यनुमानतदोभयोः। अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम्।। ४. बौद्धमते चक्षुरादीन्द्रियाण्यनुगम्यति प्रागभावादिचातुर्विध्यमसङ्गतमेव यतः स्वस्वभावव्यवस्थितयः सर्व एव भावा नात्मानं परेण मिश्रयन्ति, न चान्यतो व्यावृत्तस्वस्वरूपाणामेषां भिन्नोऽभावांशस्सम्भवति । तद्भावो (वे ? ) ऽपि तस्यापि पररूपत्वात् भावेन ततोऽपि व्यावर्तनीयमित्यपराभावकल्पनयाऽनवस्थाप्रसङ्गात् नानुकृतान्वयव्यतिरेकि कारणं विषय इति ।। ५. योगानां समवायिकारणासमवायिकारणनिमित्तकारणभेदात् त्रिधा कारणम्। यत्र हि कार्यं समवैति तत्समवायिकारणम्, यथा द्व्यणुकस्याणुद्वयम् । यच्च कार्ये कार्यसमवेतं कारणैकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणम्, यथा पटावयविद्रव्यारम्भे तन्तुसंयोगः पटसमवेतरूपाद्यारम्भे पटोत्पादकं तन्तुरूपादि च। शेषं तु निमित्तकारणमुत्पादकम्, यथा घटाकाशादि ॥ ६. प्रमाणाद्भिन्नमेवोपादानहानोपेक्षाबुद्धयः प्रमाणफलं योगानाम्॥५ ७. प्रत्यक्षस्य लक्षणमिदं श्रोत्रादिवृत्तिप्रत्यक्षं श्रोत्रं त्वक्चक्षूंषी जिह्वा पञ्चमीति । श्रोत्रेन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत्। इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । एतच्च प्रमाणलक्षणं विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनी बुद्धिरेव पुरुषमुपरञ्जयन्ती प्रमाणमिति । इन्द्रियाणां हि वृत्तिर्विषयाकारपरिणतिरुच्यते । न हि प्रतिनियतशब्दाद्याकारपरिणतिमन्तरेणेन्द्रियाणां प्रतिनियत शब्दार्थाद्यालोचनं घटते। तस्माद् विषयसम्पर्कात् प्रथममिन्द्रियाणां विषयरूपतापत्तिरिन्द्रियवृत्तिः तदनु विषयाकारपरिणतेन्द्रिय-वृत्त्योरहङ्कारवृत्तिः। अहङ्कारवृत्त्यालम्बना च बुद्धिवृत्तिः । सा पुनः पुरुषमुपरञ्जयति। तदुपरक्तोऽपि पुरुषः प्रतिनियतविषयोपद्रष्टा सम्पद्यते॥ ८. जपाकुसुमादिसन्निधानवशात् स्फटिके रक्तादिव्यपदेशवदकर्तृरपि प्रकृत्युपधानवशादात्मनः सुखदुःखादिभोगव्यपदेशो युक्तः। सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तस्या विकारो वैषम्यम्। तदेव निर्मलत्वेन प्रतिबिम्बोत्पत्तियोग्यत्वाद्दर्पणाकारा बुद्धिः। तस्यां पूर्वं पदार्थाः प्रतिबिम्ब्यन्ते । ततश्च बुद्धिदर्पणा(ण) सङ्क्रान्तानि अर्थप्रतिब(बि)म्बकानि द्वितीयदर्पणकल्पे पुंसि अध्यारोहन्ति तदेव भोक्तृत्वमस्य, न तु विकारापत्तिलक्षणं वास्तवं भोक्तृत्वम्। अन्ये त्वविन्ध्यदासप्रभृतयः इत्थं भोगताचक्षते पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम्। मनः करोति सान्निध्यादुपाधेः स्फु(स्फ) टिकं यथा ॥ १ ॥ अस्य व्याख्या-यथोपाधिर्जपापुष्पपद्मरागादिरतद्रूपमपि स्फटिकं स्वाकारं रक्तादिच्छायं करोति एवमयमात्मा स्वस्वरूपादच्यवमानः चैतन्यं पुरुषस्वरूपम(मि)तिवचनादचेतनमपि मनो बुद्धिलक्षणमन्तः करणं स्वनिर्भासचेतनमिव करोति सान्निध्यान्न पुनर्वस्तुतो मनसश्चैतन्यम्। तथाहि मनो अचेतनं विकारित्वात् घटवदिति ३ इति साङ्ख्यमतम् ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186