Book Title: Shrutdeep Part 01
Author(s): 
Publisher: Shubhabhilasha Trust

View full book text
Previous | Next

Page 39
________________ सर्वदर्शनाभिमतप्रमाणानि प्रमाणत्रयम्। प्रकृतिविकारस्वरूपं कर्म। त्रैगुण्यरूपम् सामान्यं प्रमाणगोचरः। तत्र त्रयो गुणाः सत्त्वरजस्तमांसि इति साङ्ख्यमतम्॥३॥ वैशेषिकाः कणादौलुक्यापरनामानः। तेषां मते द्रव्यादयः षट् पदार्थाः। व्योमात्मादिकं नित्यम्। प्रदीपादि कियत्कालावस्थायि बुद्धिसुखादि क्षणिकम्। ईश्वरो जगत्कर्ता। चैतन्यादयो रूपादयो धर्माः आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन सम्बद्धाः। स च समवायो नित्य एकः सर्वगतश्च। बुद्धिः सुखदुःखेच्छाधर्माधर्मसंस्काराः द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते।। एतेषां नवानाम् आत्मविशेषगुणानामुच्छेदो मोक्षः। सर्वगत आत्मा। प्रत्यक्षानुमाने प्रमाणे। प्राप्यकारीण्येवेन्द्रियाणि। द्रव्यार्थिकपर्यायार्थिकनयद्वयं स्वतन्त्रं मतम्। गुणाश्च {गुणाश्च} [केचिदनित्याः] केचिन्नित्या एव। कर्मानित्यमेव। सामान्यविशेषसमवायास्तु नित्या एव पृथ(थि)व्यापस्तेजोवायुः इत्येतच्चतुःसङ्ख्यं नित्यानित्यभेदाद्विप्रकारं द्रव्यम्। तत्र परमाणुरूपं नित्यं तदारब्धं व्यणुकाद्यनित्यम्। आकाशकालदिगात्ममनांसि नित्यान्येव। परस्परविभक्तौ सामान्यविशेषौ। प्रमाणगोचरः द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्। समवाय इति स्पष्टं द्रव्यषटकं हि तन्मते॥ तत्र द्रव्यादीनां सर्वेषामपि वस्तुतत्त्वनिबन्धनस्वरूपं सत्त्वं विद्यते। सत्तासम्बन्धश्चाद्यत्रिके विद्यते सामान्यविशेषसमवायेष नास्तीति इति वैशेषिकमतम्॥४॥ जैम(मि)नीया याज्ञिकमीमांसकभेदास्तेषामर्चिमार्गप्रतिपक्षधूममार्गाश्रितानां वेदोक्ता हिंसा धर्माय। सकर्ममीमांसाकृत्प्रकारस्तस्य पञ्च प्रमाणान्यभावं विना। तैः (नैः?)कर्ममीमांसाकृतो मीमांसकभेदाः भट्टा नित्यपरोक्षज्ञानवादिनः। तेषां प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यभावाः षट् प्रमाणानि । अनधिगतार्थाधिगन्तृ प्रमाणमिति प्रमाणलक्षणम्। पूर्वं प्रमाणम् उत्तरं तु फलम्। सामान्यविशेषात्मकं वस्तु प्रमाणगोचरः। वेदोऽपौरुषेयः। प्राप्यकारीण्येवेन्द्रियाणि। सर्वज्ञो नास्ति। शब्दो नित्यः। परमब्रह्मैव परमार्थसत्। अविद्यापरनाममायावशात्प्रतिभासमानोऽपरप्रपञ्चोऽपारमार्थिकः इति जैम(मि)नीयमतम्॥५॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दम्, तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः। अर्थापत्त्या प्रभाकद्वदति च निखिलं मन्यते भाट्ट एतत्, साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च।। ॥इति सर्वदर्शनाभिमतप्रमाणानि।। १. वैशेषिकाणां सहकारणवन्नित्यमिति नित्यलक्षणम्। समवाय्यसमवायिनिमित्तभेदात्रिधा यत्र कार्य समवैति तत्समवायिकारणम्, यथा व्यणुकस्याणुद्वयम्। यत्र [कार्ये कार्यैकार्थसमवेते वा कार्यमुत्पादयति तदसमवायिकारणम्, यथा पटावयविद्रव्यारम्भे तन्तुसंयोगः, पटसमवेतरूपाद्यारम्भे पटोत्पादकं तन्तुरूपादिचा शेषं तूत्पादकं निमित्तम्, यथाऽदृष्टाकाशादि। वैशेषिकैः षट्क्षणस्थायित्वेनाभ्युपगमात्। न हि प्रदीपादिः स एव देशान्तरमाक्रामतीत्युपगम्यते स्वकारसम्बन्धकालः प्रथमस्ततः सामान्याभिव्यक्तिकालः ततोऽवयवविभागकालस्ततोऽवयव(वि?)विभागकालः ततः स्वारम्भकावयवसंयोग-विभागनाशकालस्ततो द्रव्यकाल इति प्रक्रियोपवर्णनात्।। २. कन्दलीकारमते प्रमाणद्वयम्। नित्यद्रव्यवृत्तयोऽन्त्या विशेषाश्चाव्योमशिवाचार्याभिप्रायेण तु प्रत्यक्षानुमानशाब्दरूपंप्रमाणत्रयम्।। ३. ज्ञानं परोक्षं न स्वग्राहकं किन्तु अर्थप्राकट्योत्थापितार्थापत्तेर्ज्ञानं निर्णयः स्यात्। प्रामाण्यं प्रामाण्यस्योत्पत्तिः प्रामाण्यनिश्चयश्च स्वत एव। अप्रामाण्यस्योत्पत्तिजप्तिश्च कारणगतदोषेऽप्यबाधकापेक्षातश्चेति तदप्यत एव स्यात्। ज्ञप्तिर्मीमांसका जगुः।। ४. प्रत्यभिज्ञां प्रत्यक्षस्यैव विशेष वदन्ति मीमांसकाः। सत्सम्प्रयोगे तु पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्। अर्थापत्तिः षोढा। प्रत्यक्षपूर्विकार्थापत्तिर्यथाऽग्नेः प्रत्यक्षेणोष्णस्पर्शमुपलभ्य दाहकशक्तियोगोऽर्थापत्त्या प्रकल्प्यते। न हि शक्तिरध्यक्षपरिच्छेद्या, नाप्यनुमानादिगम्या। प्रत्यक्षेणार्थेन स शक्तिलक्षण(स्य) कस्यचिदर्थस्य सम्बन्धासिद्धेः। [आनु[मान]पूर्विका तु यथास्यादित्यस्य देशान्तरप्राप्तादेव देवदत्तस्य गत्यनुमाने ततो गमनशक्तियोगोऽर्थापत्त्यावसीयते। उपमानपूर्विका यथा गवयवद्गौरिति उक्तेराद्वाहदोहदा(ना)दिशक्तियोगस्तस्य प्रतीयते। शब्दपूर्विका यथाशब्दादर्थप्रतीतोशब्दस्यार्थेन सम्बन्धसिद्धिः। श्रुतपूर्विका यथा यथोक्तप्रकारेणशब्दस्यार्थेन सम्बन्धसिद्धावन्नित्यत्वसिद्धिः, पौरुषेयत्वे शब्दस्यसम्बन्धायोगात्। अथाभावपूर्विकाऽर्थापत्तिर्यथा जीवतो देवदत्तस्य गृहेऽदर्शना]दर्थाद्वहिर्भावोऽत्र चतुसृभिरर्थापत्तिभिः शक्तिः साध्यते पञ्चम्यां नित्यता षष्ठं बहिर्भूतो देवदत्त एव षोढार्थापत्तिः॥ प्रभाकरोऽभावं प्रत्यक्षविशेषं वदति। अभावविधा प्रमाणपञ्चकाभावः, तदन्यज्ञानम्, आत्मा वा ज्ञाननिर्मुक्त इति।।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186