________________
३१
श्रुतदीप-१
पृथगभिहिताः१। प्रमाणादभिन्नमर्थाधिगम एव फलम्, तच्च प्रमाणादभिन्नम् | अविसंवादि विज्ञानं प्रमाणमिति लक्षणं प्रमाणस्य३। परस्परविनिर्लुठितक्षणक्षयिलक्षणानि निरंशस्वलक्षणानि, प्रमाणगोचरः तात्त्विकः । चक्षुः श्रोत्रेऽप्राप्यकारिणी, इतराणि प्राप्यकारीणि। स्मरणं प्रमाणम्, तर्कप्रत्यभिज्ञाया(ज्ञयोः) अप्रामाण्यम्। नयः पर्यायास्तिको वस्तुनि परासत्त्वनिषेधः वासनास्वरूपं कर्म इति बौद्धमतम्॥१॥
नैयायिक(का) योगाक्षपादापराभिधास्तेषां प्रमाणादीनि षोडश तत्त्वानि । अर्थोपलब्धिहेतुः प्रमाणम् । तच्चतुर्धा प्रत्यक्षानुमानोपमानशाब्दभेदात् । एकात्मसमवायि ज्ञानान्तरवेद्यं ज्ञानम्। सृष्ट्यादिकृद्देवः शिवः ५ | प्रमाणाद्भिन्नं फलम् । प्राप्यकारीण्येवेन्द्रियाणि। तमश्छायेऽद्रव्ये । स्मृतेरप्रामाण्यम्। स्वतन्त्रौ सामान्यविशेषौ । प्रमाणगोचर आकाशगुणः शब्दोऽपौद्गलिकः, सङ्केतवशादेव शब्दार्थप्रतीतिः । धर्मधर्मिणोर्भेदः सामान्यतैकवृत्ति आत्मविशेषगुणलक्षणं कर्म इति योगमतम्॥२॥
साङ्ख्याः पारमर्षकापिलापरसञ्ज्ञास्तेषां पञ्चविंशतिः तत्त्वानि। प्रत्यक्षा(कृत्या?)दीनि प्रत्यक्षानुमानशाब्दानि प्रमाणानि । अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः। अकर्ता निर्गुणः सूक्ष्म आत्मा कपिलदर्शने ॥
चिच्छक्तिर्विषयपरिच्छेदशून्या, बुद्धिश्च जडा, यत इन्द्रियद्वारेण सुखदुःखादयो विषया बुद्धौ सङ्क्रामन्ति। बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुःख्यहमित्युपचारः । प्रकृतेर्वियोगान्मोक्षः। प्राप्यकारिणीन्द्रियाणि । नयो द्रव्यास्तिकः अविर्भावतिरोभावमात्रता वस्तुनः, उत्पादविनाशौ न स्तः । प्रत्यक्षानुमानशाब्दसञ्ज्ञं
१. बौद्धानां स्वभावानुपलब्धेः स्वभावहेतावन्तर्भाव इति तस्यास्तादात्म्यमेव सम्बन्धः कारणव्यापकानुपलब्ध्योरपि तादात्म्यतदुत्पत्तिप्रतिबन्धाद्व्याप्यकार्यनिवर्तकत्वमिति। अयमेव हि यो ह्येष भावे भवति निश्चयः । नैष वस्त्वन्तराभावे संवित्त्यनुगमादृते॥
२. अज्ञाननिवृत्तिः प्रमाणवदभिन्नमेव तत्फलम्।
३. बौद्धानां हि मते भ्रान्तमनुमानं सामान्यप्रतिभासित्वात् तस्य च भ्रान्तत्वात् । प्रामाण्यं पुनरनुमानस्य प्रणालिकया। तथा हि नाथं (र्थं) विना तादात्म्यतदुत्पत्तिरूपसम्बन्धप्रतिबद्धलिङ्गस्य भावो, न तद्विना तद्विषयं ज्ञानं न तज्ज्ञानमन्तरेण प्रागवधारितसम्बन्धस्मरणम्, [न] तदस्मरणेनानुमानमित्यर्थाद् व्यभिचारित्वाद् भ्रान्तमपि प्रमाणं सङ्गीर्यते। तथा च धर्मकीर्तिविनिश्चये
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतः । मिथ्याऽज्ञानाभिवेशेऽपि विशेषार्थक्रियां प्रति ।।
यथातथाऽयथार्थेष्वप्यनुमानतदोभयोः। अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम्।।
४. बौद्धमते चक्षुरादीन्द्रियाण्यनुगम्यति प्रागभावादिचातुर्विध्यमसङ्गतमेव यतः स्वस्वभावव्यवस्थितयः सर्व एव भावा नात्मानं परेण मिश्रयन्ति, न चान्यतो व्यावृत्तस्वस्वरूपाणामेषां भिन्नोऽभावांशस्सम्भवति । तद्भावो (वे ? ) ऽपि तस्यापि पररूपत्वात् भावेन ततोऽपि व्यावर्तनीयमित्यपराभावकल्पनयाऽनवस्थाप्रसङ्गात् नानुकृतान्वयव्यतिरेकि कारणं विषय इति ।।
५. योगानां समवायिकारणासमवायिकारणनिमित्तकारणभेदात् त्रिधा कारणम्। यत्र हि कार्यं समवैति तत्समवायिकारणम्, यथा द्व्यणुकस्याणुद्वयम् । यच्च कार्ये कार्यसमवेतं कारणैकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणम्, यथा पटावयविद्रव्यारम्भे तन्तुसंयोगः पटसमवेतरूपाद्यारम्भे पटोत्पादकं तन्तुरूपादि च। शेषं तु निमित्तकारणमुत्पादकम्, यथा घटाकाशादि ॥
६. प्रमाणाद्भिन्नमेवोपादानहानोपेक्षाबुद्धयः प्रमाणफलं योगानाम्॥५
७. प्रत्यक्षस्य लक्षणमिदं श्रोत्रादिवृत्तिप्रत्यक्षं श्रोत्रं त्वक्चक्षूंषी जिह्वा पञ्चमीति । श्रोत्रेन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत्। इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । एतच्च प्रमाणलक्षणं विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनी बुद्धिरेव पुरुषमुपरञ्जयन्ती प्रमाणमिति । इन्द्रियाणां हि वृत्तिर्विषयाकारपरिणतिरुच्यते । न हि प्रतिनियतशब्दाद्याकारपरिणतिमन्तरेणेन्द्रियाणां प्रतिनियत शब्दार्थाद्यालोचनं घटते। तस्माद् विषयसम्पर्कात् प्रथममिन्द्रियाणां विषयरूपतापत्तिरिन्द्रियवृत्तिः तदनु विषयाकारपरिणतेन्द्रिय-वृत्त्योरहङ्कारवृत्तिः। अहङ्कारवृत्त्यालम्बना च बुद्धिवृत्तिः । सा पुनः पुरुषमुपरञ्जयति। तदुपरक्तोऽपि पुरुषः प्रतिनियतविषयोपद्रष्टा सम्पद्यते॥
८. जपाकुसुमादिसन्निधानवशात् स्फटिके रक्तादिव्यपदेशवदकर्तृरपि प्रकृत्युपधानवशादात्मनः सुखदुःखादिभोगव्यपदेशो युक्तः। सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तस्या विकारो वैषम्यम्। तदेव निर्मलत्वेन प्रतिबिम्बोत्पत्तियोग्यत्वाद्दर्पणाकारा बुद्धिः। तस्यां पूर्वं पदार्थाः प्रतिबिम्ब्यन्ते । ततश्च बुद्धिदर्पणा(ण) सङ्क्रान्तानि अर्थप्रतिब(बि)म्बकानि द्वितीयदर्पणकल्पे पुंसि अध्यारोहन्ति तदेव भोक्तृत्वमस्य, न तु विकारापत्तिलक्षणं वास्तवं भोक्तृत्वम्। अन्ये त्वविन्ध्यदासप्रभृतयः इत्थं भोगताचक्षते
पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम्। मनः करोति सान्निध्यादुपाधेः स्फु(स्फ) टिकं यथा ॥ १ ॥
अस्य व्याख्या-यथोपाधिर्जपापुष्पपद्मरागादिरतद्रूपमपि स्फटिकं स्वाकारं रक्तादिच्छायं करोति एवमयमात्मा स्वस्वरूपादच्यवमानः चैतन्यं पुरुषस्वरूपम(मि)तिवचनादचेतनमपि मनो बुद्धिलक्षणमन्तः करणं स्वनिर्भासचेतनमिव करोति सान्निध्यान्न पुनर्वस्तुतो मनसश्चैतन्यम्। तथाहि मनो अचेतनं विकारित्वात् घटवदिति ३ इति साङ्ख्यमतम् ॥