________________
अज्ञातकर्तृक॥सर्वदर्शनाभिमतप्रमाणानि ॥ (टिप्पणिसहितानि)
भिक्षुसौगतशाक्यशौधोदनितथागतशून्यवादिनामानो बौद्धाः। ते च वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकभेदाच्चतुर्धा। वैभाषिकाणां वस्तु चतुःक्षणिकमिति मतम्। तद्यथा-जातिर्जनयतिः, स्थितिः स्थापयति, जरा जरयति, विनाशो विनाशयति। तथात्मापि तथाविध एव। पुद्गलश्चासावभिधीयते।
सौत्रान्तिकानां विज्ञानादयः पञ्च स्कन्धाः, न पुनरात्मा । त एव परलोकगामिनः क्षणिकाः संस्काराः । स्वलक्षणं परमार्थः। अन्यापोहः शब्दार्थः। सन्तानोच्छेदो मोक्षः।
योगाचाराणां विज्ञानमात्रमिदम्, न बाह्योऽर्थः, वासनातो नीलादिप्रतिभासः।
माध्यमिकानां सर्वशून्यमिदम्, स्वप्नोपमः प्राणादिविभागः ।
बौद्धानां द्वे प्रमाणे। तत्र प्रत्यक्षं कल्पनापोढम् । त्रिरूपलिङ्गाल्लिङ्गिज्ञानमनुमानम् । तत्र दिग्ना (ना) गाचार्यमते इदं लिङ्गत्रैरूप्यं–पक्षधर्मान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रिण्येव लिङ्गानि । धर्मकीर्त्यादिबौद्धानां मते त्विदम् तत्स्वभावः कार्यम् अनुपलब्धिश्चेति। तत्रानित्यः शब्दः कृतकत्वाद् इति स्वभावहेतुः। अस्त्यत्र वह्निर्धूमादिति कार्यहेतुः। अनुपलब्धिश्चतुर्भेदा मूलभेदापेक्षया। तद्यथा- विरुद्धोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणानुपलब्धिः, स्वभावानुपलब्धिश्चेति। तत्र विरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेरिति । विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमादिति । कारणानुपलब्धिर्यथा ना धूमोऽग्न्यभावादिति। स्वभावानुपलब्धिर्यथा नास्त्यत्र घट उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेरिति२॥
शेषास्तु सप्ताप्यनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एतेष्वेव चतुर्षु भेदेष्वन्तर्भवन्तीति प्रतिभेदरूपत्वात् न
१. अभिलाषसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना = तिमिराशुभ्रमणनौयानरक्षोभाद्यनाहितचिद्भ्रमः । प्रत्यक्षं ज्ञानम्१ । तच्चतुर्विधम् इन्द्रियं विज्ञानं १, स(स्व?)विषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम् २, सर्वचित्तचैतनमात्मसंवेदनं ३, भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ४ ।
तत्र इन्द्रियस्य ज्ञानमिन्द्रियाश्रितमित्यर्थः १ स्व आत्मीयो विषयस्तस्यानन्तरो भावी समानजातीयो द्वितीयक्षणभाव्युपादेशक्षण इन्द्रियविज्ञानविषयस्य गृह्यते। तथा च सति इन्द्रियविषयक्षणादुत्तरक्षणे एकसन्तानान्तर्गतो गृहीतः स सहकारी यस्येन्द्रियज्ञानस्य तत्तथोक्तम्। द्विविधः सहकारी परस्परोपकाराणां एककार्यकारी च। इह च क्षणिके वस्तुनि अतिशयाधानायोगात् एककार्यत्वेन सहकारी गृह्यते। विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते। समश्चासौ ज्ञानत्वेनानन्तरश्चाव्यवहितत्वेन स चासौ प्रत्ययश्च तेन जनितम्, एतच्च मनोविज्ञानम् उपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते व्यापारवति तु चक्षुषि यज्ज्ञानं तच्चक्षुराश्रितमेव॥२॥
चित्तमर्थमात्रग्राहि। चैत्ता विशेषा वस्त्वग्राहिणः सुखादयः। सर्वे च ते चित्तचैत्ताश्च सुखादय एव स्फुटानुभवित्वात् स्वसंविदिता नान्यचित्तावस्था इत्येतदाशङ्कानिवृत्यर्थं सर्वग्रहणम् उक्तम् । नास्ति मा का ( सा चित्) चित्तावस्था यस्यामात्मानः संवेदनं प्रत्यक्षम् इव च रूपादौ दृश्यमाने स्यातां सुखाद्याकारः तुल्यकालं वेद्यते। न च ग्रहणाकारो नीलादिः सातरूपो वेद्यते। तस्मादसातान्नीलादर्थादन्यदेव सातमनुभूयते। नीलानुभवकाले तत्त्वज्ञानं मे ततोऽस्ति ज्ञानानुभवः, तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च, ततः प्रत्यक्षम् ततः सद्भूतोऽर्थः । यथा चत्वार्यो(र्यार्य)यसत्यानि।
भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थावभासस्य ज्ञानरूपस्य स्फुटाभत्वारम्भः प्रकर्षस्य पर्यन्तो यदा स्फुटत्वारम्भमीषदपरिपूर्णतावत्तस्य प्रकर्षगमनम्। सम्पूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते। तस्माद् पर्यन्ताद् यज्ञा(ज्ज्ञा)नं भाव्यमानस्यार्थस्य सन्निहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम्। तदिह स्फुटत्वारम्भावस्थाभावनाप्रकर्षः १ । अक) व्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा पर्यन्तावस्था २ । करतलामलकवद्भाव्यमानस्यार्थस्य तद्योगिप्रत्यक्षं ३ । तद्धि स्फुटाभम्, स्फुटाभत्वादेव च निर्विकल्पकम्।
विकल्पविज्ञानं हि सङ्केतकालादृष्टित्वेर (ष्टत्वेन?) वस्तु गृह्णच्छब्दसंसर्गयोग्यं गृह्णीयात्। सङ्केतकालादृष्टत्वं च सङ्केतकालोत्पन्नज्ञान(ना?)विषयत्वम्। यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितग्राहित्वादस्फुटाभम् स्फुटाभाववाच्च सविकल्पकम्। ततः स्फुटाभत्वान्निर्विकल्पकप्रमाणं तद्वार्थग्राहित्वाच्च संवादकम्। अतः स्वपरप्रत्यक्षवत्। योगः समाधिः सोऽस्यास्तीति योगी तस्य ज्ञानं प्रत्यक्षम्॥
२. तादात्म्यतदुत्पत्त्योरविनाभावव्यापकयोर्यत्राभावः तत्राविनाभावाभावाद् हेतुत्वस्याप्यभावः । तथा च प्रयोगः । यस्य येन तादात्म्यतदुत्पत्ती न स्तः न स तदविनाभावी यथा प्रमेयत्वादिव नित्यत्वादिना न स्तश्च के केनचित्तादात्म्यतदुत्पत्ती स्वभावव्यतिरेकिणामर्थानामिति ।