SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रुतदीप-१ सम्पादकीयम् अमन्दानन्दसम्पूरितहृदयैरस्माभिः प्रस्तूयतेऽत्र सर्वदर्शनाभिमतप्रमाणानि इत्यभिधाना लघुकृतिरस्मिन् लेखे। अज्ञातकर्तृकाया अस्याः कृतेः नामानुसारेणैव सर्वेषां दर्शनानाम् अभिमतानि प्रमाणानि प्रधानो विषयः। अस्यां बौद्ध-न्याय-साङ्ख्य-भाट्ट-प्रभाकरमतानां प्रमाणविषये सङ्क्षिप्तं विवरणम् अकरोद् ग्रन्थकारः। अस्या रचनाशैली निबन्धात्मिका वर्तते। यत्र च अधिकं विवरणम् अपेक्षितं तत्र स्वयमेव टिप्पणरूपं व्याख्यानमकारि निबन्धकृता। अनेन लघुनिबन्धेन दर्शनानां प्रमाणविषये प्राथमिको बोधः सम्पत्स्यते। अस्याः एका एव प्रतिः लभ्यते। मातृकालिपेः शुद्धिप्रायत्वाद् ग्रन्थस्य च सुगमत्वात् सम्पादनमस्याः सरलमजनि। यत्र लेखकप्रमादजन्याः क्षतयः अदृश्यन्त ताः तत्रैव सम्मार्जिताः इति शम्। अतुल मस्के
SR No.007792
Book TitleShrutdeep Part 01
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy