Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 137
________________ Jain Education परिव्राजिकोक्ता यथेमं मम वशवर्त्तिनं वृषभं कुरु, तया च किल कुतश्चित्सामर्थ्यात्स वृषभः कृतस्तं चारयन्ती पाययन्ती | चास्तेऽन्यदा च वटवृक्षस्याधस्तान्निषण्णे तस्मिन् पुरुषगवे, विद्याधरीयुग्ममाकाशगमागमत्तत्रैकयोक्तमयं स्वाभाविको न गौर्द्वितीययोक्तं कथमयं स्वाभाविको भवति । तत्राद्ययोक्तमस्य वटस्याधस्तात्सञ्जीवनीनामौषधिरस्ति यदि तां चरति १ तदायं स्वाभाविकः पुरुषो जायते । तच्च विद्याधरीवचनं तया स्त्रिया समाकर्णितं तया चौषधिं विशेषतोऽजानानया सर्व्वमेव चारिं तत्प्रदेशवर्त्तिनीं सामान्येनैव चारितः । यावत्सञ्जीवनीमुपभुक्तवान् । तदुपभोगानन्तरमेवासौ पुरुषः संवृत्तः” एवमिदं लौकिकमाख्यानकं श्रूयते । यथा तस्याः स्त्रियास्तस्मिन् पुरुषगवे हिता प्रवृत्तिरेवं भावनाज्ञानसमन्वि | तस्यापि सर्व्वत्र भव्यसमुदायेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥ ११ ॥ उ० एतेषां त्रयाणां विषयविभाग माह । आद्य इत्यादि । चारीत्यादि । आद्ये श्रुतज्ञाने इह जगति मनागीषत्पुंसस्त द्वतः पुरुषस्य तद्रागात् श्रुतमयज्ञानानुरागाद्दर्शनग्रहोऽसत्यपक्षपातो भवति यथेदं मयोक्तमिदमेव च प्रमाणं नान्यदिति असौ दर्शनग्रहोऽस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो द्वितीये चिन्तामये ज्ञाने चिन्तायोगादतिसूक्ष्मसुयु|क्तिचिन्तनसम्बन्धात्कदाचिदपि काले न भवति । दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्व स्वपरतन्त्रोक्तमर्थ स्थानाविरोधेन प्रतिपद्यते नत्वेकान्ततस्तत्र विप्रतिपद्यत इति । तथाचाह सम्मतौ महामतिः । णिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमओ विभयइ सच्चे व अलिए वत्ति ॥ १० ॥ चारेश्वरको भक्षयिता सञ्जीविन्या | औषधेश्चाचरकोऽनुपभोक्ता तस्य चारणमभ्यवहारणं तस्य विधानतो दृष्टान्ताच्चरमे भावनामये ज्ञाने सति सर्व्वत्र सर्वजी For Private & Personal Use Only Cainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230